Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1433

1875 Mantra
Devata- इन्द्रः Rishi- अगस्त्यो मैत्रावरुणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣡ न꣢स्ते गन्तु मत्स꣣रो꣢꣫ वृषा꣣ म꣢दो꣣ व꣡रे꣢ण्यः । स꣣हा꣡वा꣢ꣳ इन्द्र सान꣣सिः꣡ पृ꣢तना꣣षा꣡डम꣢꣯र्त्यः ॥१४३३॥

आ । नः꣣ । ते । गन्तु । मत्सरः꣢ । वृ꣡षा꣢꣯ । म꣡दः꣢꣯ । व꣡रे꣢꣯ण्यः । स꣣हा꣡वा꣢न् । इ꣣न्द्र । सानसिः꣢ । पृ꣣तनाषा꣢ट् । अ꣡र्म꣢꣯त्यः । अ । म꣣र्त्यः ॥१४३३॥

Mantra without Swara
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । सहावाꣳ इन्द्र सानसिः पृतनाषाडमर्त्यः ॥

आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः । सहावान् । इन्द्र । सानसिः । पृतनाषाट् । अर्मत्यः । अ । मर्त्यः ॥१४३३॥

Samveda - Mantra Number : 1433
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यशालिन् जगदीश्वर ! (ते) तव (वृषा) कामवर्षकः (मदः) उत्साहयिता, (वरेण्यः) वरणीयः, (सहावान्) बलवान्, (सानसिः) संभजनीयः, (पृतनाषाट्)शत्रुसेनानां पराजेता, (अमर्त्यः) अमरः, अक्षयः (मत्सरः)आनन्दरसरूपः सोमः (नः) अस्मान् (आ गन्तु) आगच्छतु। [अत्र ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘इषुगमियमां छः’। अ० ७।३।७७ इति न प्रवर्तते] ॥२॥२
Essence
परमेश्वरात् परमानन्दरसं प्राप्य मनुष्यैः शौर्येणाभ्यन्तरान् बाह्यांश्च सर्वान् रिपूनुन्मूल्य निष्कण्टकं स्वराज्यं स्थापनीयम् ॥२॥
Subject
अथ पुनर्ब्रह्मानन्दविषयमेव वर्णयति।