Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1432

1875 Mantra
Devata- इन्द्रः Rishi- अगस्त्यो मैत्रावरुणः Chhand- स्कन्धोग्रीवी बृहती Swara- मध्यमः
Mantra with Swara
म꣡त्स्यपा꣢꣯यि ते꣣ म꣢हः꣣ पा꣡त्र꣢स्येव हरिवो मत्स꣣रो꣡ मदः꣢꣯ । वृ꣡षा꣢ ते꣣ वृ꣢ष्ण꣣ इ꣡न्दु꣢र्वा꣣जी꣡ स꣢हस्र꣣सा꣡त꣣मः ॥१४३२॥

म꣡त्सि꣢꣯ । अ꣡पा꣢꣯यि । ते꣣ । म꣡हः꣢꣯ । पा꣡त्र꣢꣯स्य । इ꣣व । हरिवः । मत्सरः꣢ । म꣡दः꣢꣯ । वृ꣡षा꣢꣯ । ते꣣ । वृ꣡ष्णे꣢꣯ । इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । स꣣हस्रसा꣡त꣢मः । स꣣हस्र । सा꣡त꣢꣯मः ॥१४३२॥

Mantra without Swara
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥

मत्सि । अपायि । ते । महः । पात्रस्य । इव । हरिवः । मत्सरः । मदः । वृषा । ते । वृष्णे । इन्दुः । वाजी । सहस्रसातमः । सहस्र । सातमः ॥१४३२॥

Samveda - Mantra Number : 1432
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हरिवः) ऋक्सामरूपहरियुक्त इन्द्र जगदीश्वर ! [ऋक्सामे वा इन्द्रस्य हरी। ष० ब्रा० १।१।] त्वम् (मत्सि) आनन्दयसि। (महः पात्रस्य इव) रसपूर्णस्य महतः घटादिभाजनस्य इव (ते) तव (मदः) मादयिता उत्साहयिता (मत्सरः) आनन्दरूपः सोमरसः। [मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः। निरु० २।५।] (अपायि) मया पीतोऽस्ति। सम्प्रति स्वान्तरात्मानं ब्रूते—हे मदीय अन्तरात्मन् ! (वृष्णे) बलवते (ते) तुभ्यम्, एषः (वृषा) अन्येषु सुखवर्षकः (वाजी) बलवान् (इन्दुः) आनन्दरूपः सोमरसः (सहस्रसातमः) असंख्यातलाभप्रदः वर्तते इति शेषः ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
परमेश्वरः सलिलेन पूर्णः कलश इवानन्दरसेन परिपूर्णोऽस्ति। तदीयमानन्दरसं पीत्वा स्तोतुरात्मा कृतार्थो जायते ॥१॥
Subject
तत्रादौ ब्रह्मानन्दविषयमाह।