Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1431

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣣मा꣡सु꣢ प꣣क्व꣡मैर꣢꣯य꣣ आ꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । घ꣣र्मं꣡ न सामं꣢꣯ तपता सुवृ꣣क्ति꣢भि꣣र्जु꣢ष्टं꣣ गि꣡र्व꣢णसे बृ꣣ह꣢त् ॥१४३१॥

आ꣣मा꣡सु꣢ । प꣣क्व꣢म् । ऐ꣡र꣢꣯यः । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दिवि꣢ । घ꣣र्म꣢म् । न । सा꣡म꣢꣯न् । त꣣पता । सुवृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । जु꣡ष्ट꣢꣯म् । गि꣡र्व꣢꣯णसे । गिः । व꣣नसे । बृहत् ॥१४३१॥

Mantra without Swara
आमासु पक्वमैरय आ सूर्यꣳ रोहयो दिवि । घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥

आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि । घर्मम् । न । सामन् । तपता । सुवृक्तिभिः । सु । वृक्तिभिः । जुष्टम् । गिर्वणसे । गिः । वनसे । बृहत् ॥१४३१॥

Samveda - Mantra Number : 1431
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! त्वम् (आमासु) अपरिपक्वासु ओषधीषु (पक्वम्) परिपक्वं फलम्, यद्वा (आमासु) अपरिपक्वासु गोषु (पक्वम्) परिपक्वं दुग्धम् (ऐरयः) प्रेरितवानसि, (दिवि) आकाशे (सूर्यम्) आदित्यम् (आ रोहयः) आरोहितवानसि। हे मनुष्याः ! यूयम् (सुवृक्तिभिः) शोभनाभिः यमनियमादिक्रियाभिः (गिर्वणसे) गीर्भिः संभजनीयाय इन्द्राय जगदीश्वराय। [गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति। निरु० ६।१४।] (जुष्टम्) प्रियम् (बृहत्) महत् (सामन्) स्तोत्रम् [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (घर्मम् न) अग्निमिव (तपत) परिपक्वं कुरुत प्रकाशयत वा ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
तपस्यया परिपक्वमेव स्तोत्रं परमात्मनश्चित्तमाकर्षति फलदायि च जायते ॥३॥
Subject
अथोपास्योपासकविषयमाह।