Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1430

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त꣡त्ते꣢ य꣣ज्ञो꣡ अ꣢जायत꣣ त꣢द꣣र्क꣢ उ꣣त꣡ हस्कृ꣢꣯तिः । त꣡द्विश्व꣢꣯मभि꣣भू꣡र꣢सि꣣ य꣢ज्जा꣣तं꣢꣫ यच्च꣣ ज꣡न्त्व꣢म् ॥१४३०॥

तत् । ते꣣ । यज्ञः꣢ । अ꣣जायत । त꣢त् । अ꣣र्कः꣢ । उ꣣त꣢ । ह꣡स्कृ꣢꣯तिः । त꣢त् । वि꣡श्व꣢꣯म् । अ꣣भिभूः꣢ । अ꣣भि । भूः꣢ । अ꣢सि । य꣢त् । जा꣣त꣢म् । यत् । च꣣ । ज꣡न्त्व꣢꣯म् ॥१४३०॥

Mantra without Swara
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥

तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥१४३०॥

Samveda - Mantra Number : 1430
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! यस्मात् त्वं वृत्रहत्याय विघ्नविनाशाय समर्थोऽभूः (तत्) तस्मादेव (ते) तव (यज्ञः) सृष्टियज्ञः (अजायत) उदपद्यत, (तत्) तस्मादेव (अर्कः) सूर्यः (उत) अपि च (हस्कृतिः) विद्युतः हस्कारः अजायत। [हस्काराद् विद्युतस्परि। ऋ० १।२३।१२ इति वचनात्।] (तत्) तस्मादेव (विश्वम्) सर्वम् (यत् जातम्) यदुत्पन्नम् (यच्च जन्त्वम्) यच्च जनितव्यम् अस्ति, तत् त्वम्। [जनी प्रादुर्भावे धातोः ‘कृत्यार्थे तवैकेन्केन्यत्वनः। अ० ३।४।१३’ इति त्वन् प्रत्ययः।] (अभिभूः असि) स्वमहिम्ना अभिभूतवानसि ॥२॥
Essence
विघ्नविनाशसमर्थत्वादेव परमेश्वरः सूर्यचन्द्रविद्युन्नक्षत्रादिमयं सर्वमिदं जगन्निर्मातुं धारयितुं च सफलो भवति ॥२॥
Subject
अथ जगदीश्वरस्य महिमानमाह।