Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 143

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣣पह्वरे꣡ गि꣢री꣣णा꣡ꣳ स꣢ङ्ग꣣मे꣡ च꣢ न꣣दी꣡ना꣢म् । धि꣣या꣡ विप्रो꣢꣯ अजायत ॥१४३॥

उ꣣पह्वरे꣢ । उ꣣प । ह्वरे꣢ । गि꣣रीणाम् । स꣢ङ्गमे꣢ । स꣣म् । गमे꣢ । च꣣ । न꣡दीना꣢म् । धि꣣या꣢ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अजायत ॥१४३॥

Mantra without Swara
उपह्वरे गिरीणाꣳ सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥

उपह्वरे । उप । ह्वरे । गिरीणाम् । सङ्गमे । सम् । गमे । च । नदीनाम् । धिया । विप्रः । वि । प्रः । अजायत ॥१४३॥

Samveda - Mantra Number : 143
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गिरीणाम्) पर्वतानाम् (उपह्वरे२) एकान्ते अन्तिके वा। रहोऽन्तिकमुपह्वरे इत्यमरः ३।१८३। (नदीनाम्) सरितां (सङ्गमे च) सङ्गमस्थले च (धिया) ध्यानेन। धी शब्दो ध्यानार्थे निरुक्ते धीराः इत्यस्य व्याख्याने प्रोक्तः—धीराः प्रज्ञानवन्तो ध्यानवन्त इति (निरु० ४।९।) (विप्रः) विशेषेण प्राति पूरयति सर्वं जगत् स्वसत्तया यः स विप्रः सर्वव्यापकः यद्वा मेधावी इन्द्राख्यः३ परमात्मा। वि पूर्वात् प्रा पूरणे धातोः आतश्चोपसर्गे।’ अ० ३।१।१३६ इति कः प्रत्ययः। विप्र इति मेधाविनाम। निघं० ३।१५। (अजायत) आविर्भवति ॥९॥४
Essence
युष्माकं प्रश्नः क्व स इन्द्रः परमेश्वर इति। तत्रास्माकमुत्तरं स सर्वव्यापकोऽस्ति, किन्तु दर्शनं तस्य बाह्यचक्षुषा न संभवति, ध्यानद्वाराऽन्तश्चक्षुषैव स साक्षात्कर्तुं योग्योस्ति। ध्यानं च न कोलाहलपूर्णे वातावरणे, परं पर्वतानां सरितां च शान्तप्रदेशे सुगमम्। तेष्वेव ध्यानयोग्येषु प्रदेशेषु ध्यानिनां परमेश्वरसाक्षात्कारो जायते। युष्माकं द्वितीयः प्रश्नः कस्तं सपर्यतीति। तस्योत्तरमपि पूर्वस्मिन्नुत्तरे समाविष्टम्। निराकारमकायमचक्षुर्गोचरमपि तं पूर्वोक्तप्रकारेण ध्यायन् पुजयितुमर्हति जनः, न तु तन्मूर्तिं विरच्य तत्र पत्रपुष्पतोयादिसमर्पणकर्ता तस्य वास्तविकः पूजक इति ॥९॥
Subject
अथ पूर्वप्रश्नस्योत्तरं दीयते।
Footnote
१. ऋ० ८।६।२८, सङ्गमे इत्यत्र संगथे इति पाठः। य० २६।१५। २. उपह्वरे गह्वरे प्रदेशे—इति वि०। समीपे—इति भ०। ३. इन्द्रदेवताकत्वाद् ऋचः विप्रशब्देन इन्द्रो गृह्यते। ४. मन्त्रोऽयं दयानन्दर्षिणा यजुर्भाष्ये यो मनुष्यः शैलानां निकटे नदीनां च सङ्गमे योगेनेश्वरं विचारेण विद्यां चोपासीत स धिया मेधावी जायते इति विषये व्याख्यातः।