Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1429

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡ज्जाय꣢꣯था अपूर्व्य꣣ म꣡घ꣢वन्वृत्र꣣ह꣡त्या꣢य । त꣡त्पृ꣢थि꣣वी꣡म꣢प्रथय꣣स्त꣡द꣢स्तभ्ना उ꣣तो꣡ दिव꣢꣯म् ॥१४२९॥

य꣢त् । जा꣡य꣢꣯थाः । अ꣣पूर्व्य । अ । पूर्व्य । म꣡घ꣢꣯वन् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । तत् । पृ꣣थिवी꣢म् । अ꣣प्रथयः । त꣢त् । अ꣣स्तभ्नाः । उत꣢ । उ꣣ । दि꣡व꣢꣯म् ॥१४२९॥

Mantra without Swara
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥

यत् । जायथाः । अपूर्व्य । अ । पूर्व्य । मघवन् । वृत्रहत्याय । वृत्र । हत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । उ । दिवम् ॥१४२९॥

Samveda - Mantra Number : 1429
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अपूर्व्य) स्वयम्भूः ! [पूर्वैः कृतः पूर्व्यः। ‘पूर्वैः कृतमिनयौ च।’ अ० ४।४।११३ इति य प्रत्ययः। न पूर्वैः कृतः अपूर्व्यः स्वयम्भूरित्यर्थः।] (मघवन्) ऐश्वर्यशालिन् इन्द्र जगदीश्वर ! (यत्) यस्मात्, त्वम् (वृत्रहत्याय) विघ्नविनाशाय (जायथाः) अजायथाः, समर्थोऽभवः, (तत्) तस्मात् (पृथिवीम्) भूमण्डलम् (अप्रथयः) व्यस्तृणाः, (उत उ) अपि च (तत्) तस्मादेव च (दिवम्) सूर्यम् (अस्तभ्नाः) स्थिरीकृतवानसि ॥१॥
Essence
यो विघ्नान् विहन्तुं समर्थो भवति स एव हस्तगृहीतेषु कार्येषु सफलो जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ६०१ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण निरूप्यते ॥