Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1428

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भी꣡ नो꣢ अर्ष दि꣣व्या꣡ वसू꣢꣯न्य꣣भि꣢꣫ विश्वा꣣ पा꣡र्थि꣢वा पू꣣य꣡मा꣢नः । अ꣣भि꣢꣫ येन꣣ द्र꣡वि꣢णम꣣श्न꣡वा꣢मा꣣꣬भ्या꣢꣯र्षे꣣यं꣡ ज꣢मदग्नि꣣व꣡न्नः꣢ ॥१४२८॥

अभि꣢ । नः꣣ । अर्ष । दिव्या꣢ । व꣡सू꣢꣯नि । अ꣣भि꣢ । वि꣡श्वा꣢꣯ । पा꣡र्थि꣢꣯वा । पू꣣य꣡मा꣢नः । अ꣣भि꣢ । ये꣡न꣢꣯ । द्र꣡वि꣢꣯णम् । अ꣣श्न꣡वा꣢म । अ꣣भि꣢ । आर्षेय꣢म् । ज꣣मदग्निव꣢त् । ज꣣मत् । अग्निव꣢त् । नः꣣ ॥१४२८॥

Mantra without Swara
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥

अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः । अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्निवत् । जमत् । अग्निवत् । नः ॥१४२८॥

Samveda - Mantra Number : 1428
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगदीश्वर ! त्वम् (नः) अस्मान् (दिव्या वसूनि) दिव्यानि ऐश्वर्याणि सत्याहिंसादीनि (अभि अर्ष) प्रापय, किञ्च (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य विशुद्धरूपेण दृश्यमानः त्वम् (विश्वा) विश्वानि समस्तानि (पार्थिवा) पार्थिवानि भौतिकानि धनानि (अभि अर्ष) प्रापय। वयम् (येन) यद्द्वारेण (द्रविणम्) दिव्यं ज्ञानम् (अभ्यश्नवाम) प्राप्नुयाम, तत् (आर्षेयम्) आर्षं चक्षुः (जमदग्निवत्) जमदग्नये प्रज्वलिताग्नये अग्निहोत्रिणे यथा त्वम् अभ्यर्षसि प्रेरयसि तथा (नः) अस्मभ्यम् (अभि अर्ष) प्रेरय। [जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा। निरु० ७।२४] ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
परमेश्वरकृपया वयं सर्वाणि भौतिकानि दिव्यानि च धनान्यार्षं चक्षुश्च प्राप्नुयाम येन सर्वमपि सत्यं ज्ञानं गूढानि रहस्यानि चाप्यस्माकं पुरतो हस्तामलकवत् स्पष्टानि स्युः ॥३॥
Subject
अथ पुनरपि परमात्मानं प्रार्थयते।