Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1427

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भि꣡ वस्त्रा꣢꣯ सुवस꣣ना꣡न्य꣢र्षा꣣भि꣢ धे꣣नूः꣢ सु꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः । अ꣣भि꣢ च꣣न्द्रा꣡ भर्त꣢꣯वे नो꣣ हि꣡र꣢ण्या꣣भ्य꣡श्वा꣢न्र꣣थि꣡नो꣢ देव सोम ॥१४२७॥

अभि꣢ । व꣡स्त्रा꣢꣯ । सु꣣वसना꣡नि꣢ । सु꣣ । वसना꣡नि꣢ । अ꣣र्ष । अभि꣢ । धे꣣नूः꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । पू꣣य꣡मा꣢नः । अ꣡भि꣢ । च꣣न्द्रा꣢ । भ꣡र्त꣢꣯वे । नः꣣ । हि꣡र꣢꣯ण्या । अ꣣भि꣢ । अ꣡श्वा꣢꣯न् । र꣣थि꣡नः꣢ । दे꣣व । सोम ॥१४२७॥

Mantra without Swara
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥

अभि । वस्त्रा । सुवसनानि । सु । वसनानि । अर्ष । अभि । धेनूः । सुदुघाः । सु । दुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥१४२७॥

Samveda - Mantra Number : 1427
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) दानादिगुणयुक्त (सोम) जगत्पते परमात्मन् ! त्वम्, अस्मभ्यम् (सुवसनानि) शोभनतया धारणीयानि (वस्त्रा) वस्त्राणि (अभि अर्ष) प्रेरय, (पूयमानः) शोध्यमानः, मनसि विद्यमानेभ्यः कामक्रोधादिभ्यः पृथक्कृत्य पवित्ररूपेण दृश्यमानः त्वम् (सुदुघाः) सुष्ठु दोग्ध्रीः (धेनूः) गाः (अभि अर्ष) प्रेरय। (नः) अस्माकम् (भर्तवे) भरणाय (चन्द्रा) चन्द्राणि रजतानि (हिरण्या) हिरण्यानि च (अभि अर्ष) प्रेरय। अपि च (रथिनः) रथे युज्यमानान् (अश्वान्) तुरङ्गमान् (अभि अर्ष) प्रेरय ॥२॥
Essence
मानवानां समाजे कोऽपि वस्त्रहीनो गोदुग्धहीनो धनहीनो वाहनहीनश्च न तिष्ठेत्, प्रत्युत सर्वेऽपि श्रीमन्तो गुणवन्तश्च भवेयुः ॥२॥
Subject
अथ परमात्मानं प्रार्थयते।