Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1426

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भि꣢ वा꣣युं꣢ वी꣣꣬त्य꣢꣯र्षा गृणा꣣नो꣢३꣱ऽभि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः । अ꣣भि꣡ न꣢꣯रं धी꣣ज꣡व꣢नꣳ रथे꣣ष्ठा꣢म꣣भी꣢न्द्रं꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢बाहुम् ॥१४२६॥

अ꣣भि꣢ । वा꣣यु꣢म् । वी꣣ति꣢ । अ꣣र्ष । गृणानः꣢ । अ꣣भि꣢ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । पू꣣य꣡मा꣢नः । अ꣣भि꣢ । न꣡र꣢꣯म् । धी꣣ज꣡व꣢नम् । धी꣣ । ज꣡व꣢꣯नम् । र꣣थेष्ठा꣢म् । र꣣थे । स्था꣢म् । अ꣡भि꣢꣯ । इ꣡न्द्र꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣡ज्र꣢꣯बाहुम् । व꣡ज्र꣢꣯ । बा꣣हुम् ॥१४२६॥

Mantra without Swara
अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः । अभि नरं धीजवनꣳ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥

अभि । वायुम् । वीति । अर्ष । गृणानः । अभि । मित्रा । मि । त्रा । वरुणा । पूयमानः । अभि । नरम् । धीजवनम् । धी । जवनम् । रथेष्ठाम् । रथे । स्थाम् । अभि । इन्द्रम् । वृषणम् । वज्रबाहुम् । वज्र । बाहुम् ॥१४२६॥

Samveda - Mantra Number : 1426
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम शान्तिमय उपासक ! (गृणानः) परमात्मानं स्तुवन् त्वम् (वीती) वीत्या वेगेन (वायुम्) गतिशीलं मनः (अभि अर्ष) परमात्मानं प्रति प्रेरय, (पूयमानः) पवित्रीक्रियमाणः त्वम् (मित्रावरुणा) प्राणापानौ (अभि अर्ष) परमात्मानं प्रति प्रेरय। (धीजवनम्२) धियां ध्याने जवनं वेगवन्तम्, (रथेष्ठाम्) देहरथे स्थितम् (नरम्) नेतारं जीवात्मानम् (अभि अर्ष) परमात्मानं प्रति प्रेरय। (वृषणम्) सुखवर्षकम्, (वज्रबाहुम्)शस्त्रास्त्रधारिणं सेनापतिमिव शत्रुविनाशसमर्थम् (इन्द्रम्) परमेश्वरम् (अभि अर्ष) स्वात्मानं प्रति प्रेरय। [अभि इत्यस्यावृत्त्या अर्ष इति क्रियापदं स्वयमेवावर्तते।] ॥१॥
Essence
मनुष्यो यदा मनो बुद्धिं प्राणापानौ जीवात्मानं च परमात्मानं प्रति प्रेरयति तदा परमात्मा झटिति स्वयमेव तत्सम्मुखमाविर्भवति ॥१॥
Subject
तत्राद्ये मन्त्रे उपासकं प्रेरयति।