Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1425

1875 Mantra
Devata- पवमानः सोमः Rishi- रेणुर्वैश्वामित्रः Chhand- जगती Swara- निषादः
Mantra with Swara
ते꣡ अ꣢स्य सन्तु के꣣त꣡वोऽमृ꣢꣯त्य꣣वो꣡ऽदा꣢भ्यासो ज꣣नु꣡षी꣢ उ꣣भे꣡ अनु꣢꣯ । ये꣡भि꣢र्नृ꣣म्णा꣡ च꣢ दे꣣꣬व्या꣢꣯ च पुन꣣त꣡ आदिद्राजा꣢꣯नं म꣣न꣡ना꣢ अगृभ्णत ॥१४२५॥

ते । अ꣣स्य । सन्तु । केत꣡वः꣢ । अ꣡मृ꣢꣯त्यवः । अ । मृ꣣त्यवः । अ꣡दा꣣भ्यासः । अ । दा꣣भ्यासः । जनु꣢षी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । अ꣡नु꣢꣯ । ये꣡भिः꣢꣯ । नृ꣢म्णा꣢ । च꣣ । देव्या꣢꣯ । च꣣ । पुनते꣢ । आत् । इत् । रा꣡जा꣢꣯नम् । म꣣न꣡नाः꣢ । अ꣣गृभ्णत ॥१४२५॥

Mantra without Swara
ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥

ते । अस्य । सन्तु । केतवः । अमृत्यवः । अ । मृत्यवः । अदाभ्यासः । अ । दाभ्यासः । जनुषीइति । उभेइति । अनु । येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥१४२५॥

Samveda - Mantra Number : 1425
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) सोमस्य परमात्मनः (ते) प्रसिद्धाः (अमृत्यवः) अमरणशीलाः अमारकाः वा, (अदाभ्यासः) दब्धुं पराजेतुमशक्याः (केतवः) तेजोरश्मयः (उभे जनुषी) द्वे अपि जन्मनी, इदं जन्म परं जन्म च (अनु सन्तु) अनुगृह्णन्तु (येभिः) यैस्तेजोरश्मिभिः (मननाः) मननशीला उपासकाः स्वकीयानि (नृम्णा च) नृम्णानि दैहिकबलेन सम्पाद्यमानानि कर्माणि (देव्या च) आत्मबलेन सम्पाद्यमानानि च कर्माणि (पुनते)पावयन्ति। (आत् इत्) तदनन्तरमेव च (राजानम्)राजमानं परमेश्वरम् (अगृभ्णत) गृह्णन्ति ॥३॥
Essence
परमात्मतेजसां ध्यानेन धारणेन चायं च लोकः परश्च लोकः सर्वाणि च कर्माणि शुध्यन्ति परमात्मसाक्षात्कारश्च जायते ॥३॥ अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य सोमयागफलस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ परमात्मतेजोविषयमाह।