Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1423

1875 Mantra
Devata- पवमानः सोमः Rishi- रेणुर्वैश्वामित्रः Chhand- जगती Swara- निषादः
Mantra with Swara
त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ प꣣रमे꣡ व्यो꣣मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥१४२३॥

त्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दुदुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣡ । अ꣡व꣢꣯र्धत ॥१४२३॥

Mantra without Swara
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमनि । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥१४२३॥

Samveda - Mantra Number : 1423
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(परमे) उत्कृष्टे (व्योमनि) विशेषेण रक्षके सोमयागे (अस्मै) यागानुष्ठात्रे (सप्त धेनवः) गायत्र्यादिसप्तच्छन्दस्का वेदवाग्रूपाः गावः (त्रिः) अहनि त्रिवारम्, प्रातःसवने माध्यन्दिनसवने सायंसवने चेत्यर्थः (सत्याम् आशिरम्) सत्यरूपं दुग्धम् (दुदुह्रिरे) दुहन्ति। असौ यागानुष्ठाता (यत्) यदा (ऋतैः) सत्यैः कर्मभिः (अवर्धत) वृद्धिं प्राप्नोति, तदा (निर्णिजे) स्वात्मशोधनाय(चत्वारि) चतुःसंख्यकानि (चारूणि) सुरम्याणि (अन्या भुवनानि) इतरान् लोकान् ब्रह्मचर्य-गृहस्थ-संन्यासरूपान् (चक्रे) स्वात्मने कृणोति, यागकाले गृहस्थः सन् तदुत्तरं वानप्रस्थाश्रमं संन्यासाश्रमं चापि प्रविशतीत्यर्थः ॥१॥
Essence
यागाः स्वात्मशुद्धये सत्यानुष्ठानाय च भवन्ति। जीवने सत्यमानीय ब्रह्मचर्यादीन् संन्यासान्तानाश्रमान् परिपाल्य स्वेषां परेषां च दुःखनिवृत्तिः कार्या ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६० क्रमाङ्के स्तोतृविषये व्याख्याता। अत्र सोमयागफलं वर्ण्यते।