Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1420

1875 Mantra
Devata- पवमानः सोमः Rishi- नोधा गौतमः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣣त꣡ प्र पि꣢꣯प्य꣣ ऊ꣢ध꣣र꣡घ्न्या꣢या꣣ इ꣢न्दु꣣र्धा꣡रा꣢भिः सचते सुमे꣣धाः꣢ । मू꣣र्धा꣢नं꣣ गा꣢वः꣣ प꣡य꣢सा च꣣मू꣢ष्व꣣भि꣡ श्री꣢णन्ति꣣ व꣡सु꣢भि꣣र्न꣢ नि꣣क्तैः꣢ ॥१४२०॥

उ꣣त꣢ । प्र । पि꣣प्ये । ऊ꣡धः꣢꣯ । अ꣡घ्न्या꣢꣯याः । अ । घ्न्या꣣याः । इ꣡न्दुः꣢꣯ । धा꣡रा꣢꣯भिः । स꣣चते । सुमेधाः꣢ । सु꣣ । मेधाः꣢ । मू꣣र्धा꣡न꣢म् । गा꣡वः꣢꣯ । प꣡य꣢꣯सा । च꣣मू꣡षु꣢ । अ꣣भि꣡ । श्री꣡णन्ति । व꣡सु꣢꣯भिः । न । नि꣣क्तैः꣢ ॥१४२०॥

Mantra without Swara
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥

उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । अ । घ्न्यायाः । इन्दुः । धाराभिः । सचते । सुमेधाः । सु । मेधाः । मूर्धानम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसुभिः । न । निक्तैः ॥१४२०॥

Samveda - Mantra Number : 1420
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उत) अपि च, जीवात्मरूपं वत्सं दृष्ट्वा (अघ्न्यायाः) जगन्मातृरूपायाः धेनोः (ऊधः) आपीनं यदा (प्र पिप्ये) आनन्दरूपेण पयसा वर्धते, तदा (सुमेधाः) सुप्रज्ञः (इन्दुः) जीवात्मरूपः वत्सः (धाराभिः) आनन्दधाराभिः (सचते) समवेतो जायते। (गावः) ज्ञानेन्द्रियरूपाः क्षीरिण्यः (पयसा) ज्ञानरूपेण दुग्धेन (मूर्धानम्) देहे प्रधानभूतं जीवात्मानम् (चमूषु) प्राणरूपेषु पात्रेषु (अभि श्रीणन्ति) परिपक्वं कुर्वन्ति। [श्रीञ् पाके, क्र्यादिः।] (न) यथा (निक्तैः) शुद्धैः। [णिजिर् शौचपोषणयोः, जुहोत्यादिः।] (वसुभिः) सूर्यकिरणैः। [वसव आदित्यरश्मयो विवासनात्। निरु० १२।४१।] फलादीनि परिपच्यन्ते ॥३॥ अत्रोपमालङ्कारो निगरणरूपाऽतिशयोक्तिश्च ॥३॥
Essence
यथा वत्सः स्वमातुर्धेनोः पयः पिबति तथैवोपासको जगन्मातुरानन्दरसं पिबति ॥३॥
Subject
अथोपासकस्यानन्दप्राप्तिर्वर्ण्यते।