Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 142

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क्वा꣢३꣱स्य꣡ वृ꣢ष꣣भो꣡ युवा꣢꣯ तुवि꣣ग्री꣢वो꣣ अ꣡ना꣢नतः । ब्र꣣ह्मा꣡ कस्तꣳ स꣢꣯पर्यति ॥१४२॥

क्व꣢꣯ । स्यः । वृ꣣षभः꣢ । यु꣡वा꣢꣯ । तु꣣विग्री꣡वः꣢ । तु꣣वि । ग्री꣡वः꣢꣯ । अ꣡ना꣢꣯नतः । अन् । आ꣣नतः । ब्रह्मा꣢ । कः । तम् । स꣣पर्यति ॥१४२॥

Mantra without Swara
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तꣳ सपर्यति ॥

क्व । स्यः । वृषभः । युवा । तुविग्रीवः । तुवि । ग्रीवः । अनानतः । अन् । आनतः । ब्रह्मा । कः । तम् । सपर्यति ॥१४२॥

Samveda - Mantra Number : 142
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(क्व) कुत्र वर्तते (स्यः)(वृषभः) आनन्दवर्षकः (युवा) नित्यतरुणः, तरुणवत् सदाशक्तिसम्पन्नः, (तुविग्रीवः) बहुग्रीवः, अत्यर्थं प्रलयकाले जगन्निगरणशीलः बहूपदेष्टा च। तुवि बहुनाम। निघं० ३।१। ग्रीवा गिरतेर्वा गृणातेर्वा गृह्णातेर्वा। निरु० २।२८। गॄ निगरणे तुदादिः, गॄ शब्दे क्र्यादिः। (अनानतः) शत्रोः पुरतः कदापि अनवनतः इन्द्राख्यः परमेश्वरः ? (कः) कतमः (ब्रह्मा) विद्यावृद्धः। ब्रह्मा परिवृढः श्रुततः। निरु० १।७। बृहि वृद्धौ, मनिन्। (तम्) पूर्वोक्तविशेषणविशिष्टम् इन्द्रं परमेश्वरं (सपर्यति) पूजयति ? ॥८॥
Essence
युष्माभिरुच्यते यदस्ति कश्चिद् ब्रह्माण्डशासको यः पर्जन्यवत् सर्वेषामुपरि सुखं वर्षति, यो न कदाचिद् बालो न चापि वृद्धः, किन्तु सदा तरुण एव, यः सहस्रग्रीवो भूत्वा प्रलयकाले सर्वान् पदार्थान् निगिरति, सृष्टिकाले च सहस्रशो जनान् ज्ञानमुपदिशति, यः शत्रूणां पुरतो न कदाचिन्नमति, प्रत्युत तानेव नमयति। वयं पृच्छामः क्वास्ति सः ? अस्ति चेद् दर्शयत। युष्माभिरुच्यते स पूजनीय इति। वयं पृच्छामः कोऽस्ति विद्वान् यो निराकारं निःशरीरं अदृश्यम् अश्रव्यं तं पूजयितुं शक्नुयादिति ? अतो नास्त्यसौ न च तत्पूजकः कश्चिदिति प्रश्नकर्तुरभिप्रायः ॥८॥
Subject
अथ परमात्मविषये प्रश्नः क्रियते।
Footnote
१. ऋ० ८।६४।७।