Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1419

1875 Mantra
Devata- पवमानः सोमः Rishi- नोधा गौतमः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सं꣢ मा꣣तृ꣢भि꣣र्न꣡ शिशु꣢꣯र्वावशा꣣नो꣡ वृषा꣢꣯ दधन्वे पुरु꣣वा꣡रो꣢ अ꣣द्भिः꣢ । म꣢र्यो꣣ न꣡ योषा꣢꣯म꣣भि꣡ नि꣢ष्कृ꣣तं꣡ यन्त्सं ग꣢꣯च्छते क꣣ल꣡श꣢ उ꣣स्रि꣡या꣢भिः ॥१४१९॥

स꣢म् । मा꣣तृ꣡भिः꣢ । न । शि꣡शुः꣢꣯ । वा꣣वशानः꣢ । वृ꣡षा꣢꣯ । द꣣धन्वे । पुरुवा꣡रः꣢ । पु꣣रु । वा꣡रः꣢꣯ । अ꣣द्भिः꣢ । म꣡र्यः꣢꣯ । न । यो꣡षा꣢꣯म् । अ꣣भि꣢ । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । यन् । सम् । ग꣣च्छते । कल꣡शे꣢ । उ꣣स्रि꣡या꣢भिः । उ꣣ । स्रि꣡या꣢꣯भिः ॥१४१९॥

Mantra without Swara
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥

सम् । मातृभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुवारः । पुरु । वारः । अद्भिः । मर्यः । न । योषाम् । अभि । निष्कृतम् । निः । कृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः । उ । स्रियाभिः ॥१४१९॥

Samveda - Mantra Number : 1419
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वावशानः) कामयमानः, प्रेमाप्लुतः। [वश कान्तौ, लिटः कानच्। चित्त्वादन्तोदात्तः।] (शिशुः) बालः (मातृभिः न) यथा मातृभिः संधार्यते, तद्वत् (वावशानः) परमात्मानं कामयमानः, (वृषा) तं स्वप्रेम्णा सेक्ता (पुरुवारः) बहून् सद्गुणान् वृणोति यः स सोमो जीवात्मा (अद्भिः) परमात्मनः सकाशादागताभिः आनन्दधाराभिः (सं दधन्वे) संधार्यते। अपि च, (मर्यः न) मर्त्यः पुरुषो यथा (योषाम् अभि) भार्यां प्रति प्रेम्णा याति तथा (निष्कृतम् अभि) सद्गुणकर्मस्वभावैः अलङ्कृतं परमात्मानं प्रति (यन्) गच्छन् स (कलशे) आनन्दकलाभिः परिपूर्णे मोक्षधाम्नि (संगच्छते) संयुज्यते ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
परमात्मानं प्रत्युत्कटं प्रेमोत्कृष्टा श्रद्धा च तत्प्राप्तौ परमं निमित्तं जायते ॥२॥
Subject
अथ पुनः परमात्मप्राप्तिविषय एवोच्यते।