Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1417

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ वाजं꣢꣯ वि꣣श्व꣡च꣢र्षणि꣣र꣡र्व꣢द्भिरस्तु꣣ त꣡रु꣢ता । वि꣡प्रे꣢भिरस्तु꣣ स꣡नि꣢ता ॥१४१७॥

सः । वा꣡ज꣢꣯म् । वि꣣श्व꣡च꣢र्षणिः । वि꣢श्व꣢ । च꣣र्षणिः । अ꣡र्व꣢꣯द्भिः । अ꣡स्तु । त꣡रु꣢꣯ता । वि꣡प्रे꣢꣯भिः । वि । प्रे꣢भिः । अस्तु । स꣡नि꣢꣯ता ॥१४१७॥

Mantra without Swara
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता ॥

सः । वाजम् । विश्वचर्षणिः । विश्व । चर्षणिः । अर्वद्भिः । अस्तु । तरुता । विप्रेभिः । वि । प्रेभिः । अस्तु । सनिता ॥१४१७॥

Samveda - Mantra Number : 1417
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वचर्षणिः) विश्वे सर्वे चर्षणयः मनुष्याः अनुग्राह्या यस्य तथाविधः। [चर्षणयः इति मनुष्यनाम। निघं० २।३। ‘बहुव्रीहौ विश्वं संज्ञायाम्।’ अ० ६।२।१०६ इति पूर्वपदान्तोदात्तत्वम्] (सः) असौ अग्निः अग्रणीः जगदीश्वरः (अर्वद्भिः) आक्रामकैः क्षत्रियैः योद्धृभिः। [ऋ गतौ। ऋच्छति आक्रामतीति अर्वा। ‘स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्।’ उ० ४।११४ इति वनिप् प्रत्ययः।] (वाजम्) संग्रामम् (तरुता) तारयिता, पारं गमयिता। [ग्रसितस्कभित०। अ० ७।२।३४ इथि तरतेस्तृनि उडागमो निपात्यते।] (अस्तु) भवतु। अपि च, (विप्रेभिः) मेधाविभिर्ब्राह्मणैः (सनिता) ज्ञानादिकस्य प्रदाता (अस्तु) भवतु ॥३॥२
Essence
निराकारः परमेश्वरो विप्राणां माध्यमेन ज्ञानदानं, क्षत्रियाणां माध्यमेन रक्षां, वैश्यानां माध्यमेन पोषकद्रव्यप्रदानं कुर्वन् जनानुपकरोति ॥३॥
Subject
अथ परमेश्वरं प्रार्थयते।