Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1415

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡म꣢ग्ने पृ꣣त्सु꣢꣫ मर्त्य꣣म꣢वा꣣ वा꣡जे꣢षु꣣ यं꣢ जु꣣नाः꣢ । स꣢꣫ यन्ता꣣ श꣡श्व꣢ती꣣रि꣡षः꣢ ॥१४१५॥

य꣢म् । अ꣢ग्ने । पृत्सु꣡ । म꣡र्त्य꣢꣯म् । अ꣡वाः꣢꣯ । वा꣡जे꣢꣯षु । यम् । जु꣣नाः꣢ । सः । य꣡न्ता꣢꣯ । श꣡श्व꣢꣯तीः । इ꣡षः꣢꣯ ॥१४१५॥

Mantra without Swara
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥

यम् । अग्ने । पृत्सु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः । सः । यन्ता । शश्वतीः । इषः ॥१४१५॥

Samveda - Mantra Number : 1415
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक तेजस्विन् सर्वान्तर्यामिन् जगदीश्वर ! त्वम् (यं मर्त्यम्) यं मनुष्यम् (पृत्सु) देवासुर-संग्रामेषु (अवाः)रक्षेः, (यम्) यं च (वाजेषु) आत्मिकदैहिकसामाजिकबलप्राप्त्यर्थम्। [निमित्तसप्तम्येषा।] (जुनाः) प्रेरयेः, (सः) असौ (शश्वतीः) बह्वीः। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (इषः) अध्यात्मसम्पत्तीः (यन्ता) लब्धा स्यात्। [अवाः, जुनाः इति अव रक्षणादौ, जुन गतौ इत्येतयोर्लेटि आडागमे सिपि इकारलोपे रूपम्। यन्ता इत्यत्र यमु उपरमे धातोस्तृन्] ॥१॥२
Essence
मनुष्येण विजयार्थमैहिकपारलौकिकसमृद्ध्यर्थं च स्वपुरुषार्थातिरिक्तं परमात्मनः कृपाप्यपेक्ष्यते ॥१॥
Subject
तत्रादौ अग्निनाम्ना जगदीश्वरं स्तौति।