Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1414

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣दी꣡दि꣢तिम꣣ग्नि꣢मु꣣ श्रे꣡ष्ठ꣢शोचिषम् । स꣡ नो꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ सो꣢ अ꣣पा꣢꣫मा सु꣣म्नं꣡ य꣢क्षते दि꣣वि꣢ ॥१४१४॥

अ꣣पा꣢म् । न꣡पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दी꣡दि꣢तिम् । सु꣣ । दी꣡दि꣢꣯तिम् । अ꣣ग्नि꣢म् । उ꣣ । श्रे꣡ष्ठ꣢꣯शोचिषम् । श्रे꣡ष्ठ꣢꣯ । शो꣣चिषम् । सः꣢ । नः꣣ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । सः । अ꣣पा꣢म् । आ । सु꣣म्न꣢म् । य꣣क्षते । दिवि꣢ ॥१४१४॥

Mantra without Swara
अपां नपातꣳ सुभगꣳ सुदीदितिमग्निमु श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥

अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदीदितिम् । सु । दीदितिम् । अग्निम् । उ । श्रेष्ठशोचिषम् । श्रेष्ठ । शोचिषम् । सः । नः । मित्रस्य । मि । त्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥१४१४॥

Samveda - Mantra Number : 1414
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अपाम्) उत्कृष्टप्राणानाम् उत्कृष्टकर्मणां वा (नपातम्) अधो न पातयितारम्, (सुभगम्) सुयशसम्, (सुदीदितिम्) शोभनदीप्तिप्रदम्। [दीदयति ज्वलतिकर्मा। निघं० १।१६।] (श्रेष्ठशोचिषम्) उत्तमवर्चसम् (अग्निम् उ) मार्गदर्शकम् परमात्मानं नृपतिम् आचार्यं च वयं (ववृमहे) वृण्महे इति पूर्वेण सम्बन्धः। (सः) असौ परमात्मा नृपतिराचार्यो वा (मित्रस्य) सूर्यस्य, प्राणस्य वा, (वरुणस्य) वायोः विद्युतोऽपानस्य वा, (सः) असौ परमात्मा नृपतिः आचार्यो वा (अपाम्) उदकानाम्, व्याप्तानां लोकानां, प्राणानां वा (सुम्नम्) सुखम्, सुखकरं ज्ञानम् (नः) अस्माकम् (दिवि) द्योतमाने आत्मनि (आ यक्षते)आगमयेत्। [यजतेर्विध्यर्थे लेटि सिपि प्रथमैकवचने रूपम्] ॥२॥
Essence
यथा जगदीश्वरः सर्वेषामुन्नायको यशस्वी तेजस्वी तेजःप्रदाता सुखयिता ज्ञानप्रदाता चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥ अस्मिन् खण्डे परमात्मनृपत्याचार्याणां विषयवर्णनादेतस्य खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ युगपत् परमात्मनृपत्याचार्याणां विषयमाह।