Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1413

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥१४१३॥

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣣वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥१४१३॥

Mantra without Swara
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥१४१३॥

Samveda - Mantra Number : 1413
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने तेजस्विन् विद्वन् ! (यजिष्ठम्) अतिशयेन यष्टारं पञ्चमहायज्ञानां कर्तारं वा, (देवत्रा देवम्) ज्ञानप्रकाशकेषु विद्वत्स्वपि विशिष्टं विद्वांसम्, (होतारम्) सुखस्य प्रदातारम्, (अमर्त्यम्) यशःशरीरेण अमरम्, (अस्य यज्ञस्य) अस्य विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम् (त्वा) त्वाम्, वयम् विद्यार्थिनः (ववृमहे) आचार्यत्वेन वृणीमहे ॥१॥
Essence
आस्तिको याज्ञिकश्चरित्रवान् शिक्षणकलाकुशलो विद्वानेव जनोऽध्यापनकर्मणि नियोज्यः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ११२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्राचार्यविषयो वर्ण्यते।