Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1412

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣡मु꣢ त्वा नू꣣न꣡म꣢सुर꣣ प्र꣡चे꣢तस꣣ꣳ रा꣡धो꣢ भा꣣ग꣡मि꣢वेमहे । म꣣ही꣢व꣣ कृ꣡त्तिः꣢ शर꣣णा꣡ त꣢ इन्द्र꣣ प्र꣡ ते꣢ सु꣣म्ना꣡ नो꣢ अश्नवन् ॥१४१२॥

तम् । उ꣣ । त्वा । नून꣢म् । अ꣢सुर । अ । सुर । प्र꣡चे꣢꣯तसम् । प्र । चे꣢तसम् । रा꣡धः꣢꣯ । भा꣣ग꣢म् । इ꣣व । ईमहे । मही꣢ । इ꣣व । कृ꣡त्तिः꣢꣯ । श꣣रणा꣢ । ते꣣ । इन्द्र । प्र꣢ । ते꣣ । सुम्ना꣢ । नः꣣ । अश्नवन् ॥१४१२॥

Mantra without Swara
तमु त्वा नूनमसुर प्रचेतसꣳ राधो भागमिवेमहे । महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥

तम् । उ । त्वा । नूनम् । असुर । अ । सुर । प्रचेतसम् । प्र । चेतसम् । राधः । भागम् । इव । ईमहे । मही । इव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्नवन् ॥१४१२॥

Samveda - Mantra Number : 1412
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (असुर) प्रशस्तप्राणवन् दोषाणां प्रक्षेप्तर्वा परमात्मन् नृपते आचार्य वा ! [असुशब्दात् प्रशस्तार्थे मत्वर्थीयो रः। यद्वा अस्यति प्रक्षिपति दोषादीनि यः सः। ‘असेरुरन्’ उ० १।४२ इति अस्यतेः उरन् प्रत्ययः।] (प्रचेतसम्) प्रकृष्टचित्तम् (तम् उ त्वा) तं प्रसिद्धं त्वाम् (नूनम्) निश्चयेन वयम् (राधः) दिव्यं भौतिकं च ऐश्वर्यम् विद्यादिधनं वा (ईमहे) याचामहे। [ईमहे याच्ञाकर्मा। निघं० ३।१९।] कथम् ? (भागम् इव) यथा पुत्रः पितुः सकाशात् दायांशं याचते तथा। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् नृपते आचार्य वा ! (ते) तव (कृत्तिः) कीर्तिः। [कृत्तिः कृन्ततेः यशो वा अन्नं वा। निरु० ५।२२।] (शरणा) शरणं च। [सुपां सुलुक्०। अ० ७।१।३९ इति सोराकारादेशः।] (मही इव) महती पृथिवीव विशाला वर्तते। (ते) तव (सुम्ना) सुम्नानि सुखानि (नः) अस्मान् (अश्नवन्) प्राप्नुवन्तु ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा परमेश्वरो यशस्वी शरणप्रदाता सुखदाता दोषापहारकः प्राणदायको धनदश्चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥
Subject
अथ पुनरपि परमात्मानं नृपतिमाचार्यं चाह।