Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1410

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣣रु꣡ग꣢व्यूति꣣र꣡भ꣢यानि कृ꣣ण्व꣡न्त्स꣢मीची꣣ने꣡ आ प꣢꣯वस्वा꣣ पु꣡र꣢न्धी । अ꣣पः꣡ सिषा꣢꣯सन्नु꣣ष꣢सः꣣ स्व꣢ऽ३र्गाः꣡ सं चि꣢꣯क्रदो म꣣हो꣢ अ꣣स्म꣢भ्यं꣣ वा꣡जा꣢न् ॥१४१०॥

उ꣣रु꣡ग꣢व्यूतिः । उ꣣रु꣢ । ग꣣व्यूतिः । अ꣡भ꣢꣯यानि । अ । भ꣣यानि । कृ꣣ण्व꣢न् । स꣣मीचीने꣢ । स꣣म् । ईचीने꣡इति꣢ । आ । प꣢वस्व । पु꣡र꣢꣯न्धी । पु꣡र꣢꣯म् । धी꣣इ꣡ति꣢ । अ꣣पः꣢ । सि꣡षा꣢꣯सन् । उ꣣ष꣡सः꣢ । स्वः꣢ । गाः । सम् । चि꣣क्रदः । महः꣢ । अ꣣स्म꣡भ्य꣢म् । वा꣡जा꣢꣯न् ॥१४१०॥

Mantra without Swara
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वऽ३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥

उरुगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वन् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥१४१०॥

Samveda - Mantra Number : 1410
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे सोम सर्वान्तर्यामिन् परमात्मन् ! (उरुगव्यूतिः) विस्तीर्णमार्गः विस्तीर्णकार्यक्षेत्रः इत्यर्थः, सर्वेषाम् (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) परस्परं संगते (पुरन्धी) द्यावापृथिव्यौ। [पुरन्धी इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] देहपुर्याः धारकौ प्राणापानौ वा (आ पवस्व) आ पुनीहि। (अपः) उदकानि, (उषसः) प्रभातकान्तीः, (स्वः) सूर्यम्, (गाः) भूमीश्च (सिषासन्) प्रयच्छन् त्वम्। [षणु दाने स्वार्थिकः सन्] (अस्मभ्यम्) अस्मत्कृते (महः वाजान्) महान्ति अन्नधनबलादीनि (संचिक्रदः) आह्वयसि, ददासीत्यर्थः। [संपूर्वः क्रदि आह्वाने रोदने च णिजन्तस्य लुङि रूपम्, अडागमाभावश्छान्दसः] ॥ द्वितीयः—नृपतिपरः। हे सोम प्रजापालक राजन् (उरुगव्यूतिः) राष्ट्रे यातायाताय विस्तीर्णमार्गाणां निर्मापयिता, तेषु मार्गेषु (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) सम्यक् कार्यतत्परौ पुरन्धी स्त्रीपुरुषौ (आ पवस्व) सहायतार्थम् आगच्छ। त्वम् (अपः) नदीप्रपातादीनाम् उदकानि, (उषसः) विद्युतः। [उषा वष्टेः कान्तिकर्मणः, उच्छेतेरितरा माध्यमिका। निरु० १२।६। अपोषा अनसः सरत् संपिष्टादह बिभ्युषी (ऋ० ४।३०।१०) अपासरदुषा अनसः संपिष्टान्मेघाद् बिभ्युषी। निरु० ११।४३।] (स्वः) सूर्यम् (गाः) भूमीश्च (सिषासन्) संभक्तुम् उपयोक्तुम् इच्छन् (अस्मभ्यम्) प्रजाभ्यः (महः वाजान्) महान्ति अन्नधनादीनि (संचिक्रदः) समाह्वय, समानयेत्यर्थः ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
परमेश्वरेणास्मभ्यं भूम्युदकवायुविद्युत्सूर्यरश्म्यादयः पदार्था निःशुल्कं प्रदत्ताः सन्ति। राज्ञः कर्तव्यमस्ति यत्तान् शिल्पकार्येषूपयुज्य राष्ट्रवासिनः सुखयेत् ॥३॥
Subject
अथ परमात्मानं राजानं च प्रार्थयते।