Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 141

1875 Mantra
Devata- इन्द्रः Rishi- श्यावाश्व आत्रेयः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣द्य꣡ नो꣢ देव सवितः प्र꣣जा꣡व꣢त्सावीः꣣ सौ꣡भ꣢गम् । प꣡रा꣢ दुः꣣ष्व꣡प्न्य꣢ꣳ सुव ॥१४१॥

अ꣣द्य꣢ । अ꣣ । द्य꣢ । नः꣣ । देव । सवितरि꣡ति꣢ । प्र꣣जा꣡व꣢त् । प्र꣣ । जा꣡व꣢꣯त् । सा꣣वीः । सौ꣡भ꣢꣯गम् । सौ । भ꣣गम् । प꣡रा꣢꣯ । दु꣣ष्वप्न्य꣢म् । दुः꣣ । स्व꣡प्न्य꣢꣯म् । सु꣣व ॥१४१॥

Mantra without Swara
अद्य नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्न्यꣳ सुव ॥

अद्य । अ । द्य । नः । देव । सवितरिति । प्रजावत् । प्र । जावत् । सावीः । सौभगम् । सौ । भगम् । परा । दुष्वप्न्यम् । दुः । स्वप्न्यम् । सुव ॥१४१॥

Samveda - Mantra Number : 141
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
इन्द्रो देवता, देव सवितः इति तद्विशेषणम्। हे (देव) सर्वैश्वर्यप्रद, प्रकाशमय, प्रकाशयितः, सर्वोपरि विराजमान ! देवो दानाद् वा, दीपनाद् वा, द्योतनाद् वा, द्युस्थानो भवतीति वा। निरु० ७।१५। (सवितः) सद्बुद्ध्यादिप्रेरक। यः सुवति प्रेरयति सद्बुद्धिसत्यन्यायदयादिकं स्तोतुर्मनसि स सविता। षू प्रेरणे। इन्द्र परमात्मन् ! (अद्य) अस्मिन् दिने। संहितायां निपातस्य च।’ अ० ६।३।१३६ इति दीर्घः। (नः) अस्मभ्यम् (प्रजावत्) सन्ततियुक्तम्, उत्तरोत्तरं वर्धनशीलमित्यर्थः। (सौभगम्३) धर्मयशःश्रीज्ञानवैराग्यादिधनत्वम्। सुभगस्य भावः सौभगम्। भग इति धननाम। निघं० २।१०। (सावीः) प्रेरय। षू प्रेरणे, छन्दसि लुङ्लङ्लिटः।’ अ० ३।४।६ इति लोडर्थे लुङ्। (दुःष्वप्न्यम्४) दिवादुःस्वप्नं, रात्रिदुःस्वप्नं, तेन निर्वृत्तं कुपरिणामं च। दुःष्वप्नशब्दात् स्वार्थे, निर्वृत्तार्थे वा यत्। दुःस्वप्नं च द्विविधम्, “जा॒ग्र॒द् दुष्व॒प्न्यं स्व॑प्ने दुष्व॒प्न्यम्”। अथ० १६।६।९ इति वचनात्। (परासुव) अपगमय५ ॥७॥
Essence
परमेश्वरस्योपासनया मनुष्यः सातत्येन वर्द्धनशीलं सद्गुणरूपं बहुमूल्यं धनं दोषेभ्यो मुक्तिं च प्राप्नोति ॥७॥
Subject
अथ प्रेरकं परमात्मानं प्रार्थयते।
Footnote
२. ऋ० ५।८२।४, देवता सविता। ३. सुभगमेव सौभगम्, स्वार्थिकस्तद्धितः—इति वि०। सौभगं सुभगत्वं सुधनत्वम्—इति भ०। ४. दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद् दुःखकरं दारिद्र्यम्—इति सा०। दुष्टेषु स्वप्नेषु भवं दुःखम्—इति ऋ० ५।८२।४ भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरपर एव व्याख्यातः।