Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1409

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
शू꣡र꣢ग्रामः꣣ स꣡र्व꣢वीरः꣣ स꣡हा꣢वा꣣ञ्जे꣡ता पवस्व꣣ स꣡नि꣢ता꣣ ध꣡ना꣢नि । ति꣣ग्मा꣡यु꣢धः क्षि꣣प्र꣡ध꣢न्वा स꣣म꣡त्स्वषा꣢꣯ढः सा꣣ह्वा꣡न्पृत꣢꣯नासु꣣ श꣡त्रू꣢न् ॥१४०९॥

शू꣡र꣢꣯ग्रामः । शू꣡र꣢꣯ । ग्रा꣣मः । स꣡र्व꣢꣯वीरः । स꣡र्व꣢꣯ । वी꣣रः । स꣡हा꣢꣯वान् । जे꣡ता꣢꣯ । प꣣वस्व । स꣡नि꣢꣯ता । ध꣡ना꣢꣯नि । ति꣣ग्मा꣡यु꣢धः । ति꣣ग्म꣢ । आ꣣युधः । क्षिप्र꣡ध꣢न्वा । क्षि꣣प्र꣢ । ध꣣न्वा । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । अ꣡षा꣢꣯ढः । सा꣣ह्वा꣢न् । पृ꣡त꣢꣯नासु । श꣡त्रू꣢꣯न् ॥१४०९॥

Mantra without Swara
शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥

शूरग्रामः । शूर । ग्रामः । सर्ववीरः । सर्व । वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मायुधः । तिग्म । आयुधः । क्षिप्रधन्वा । क्षिप्र । धन्वा । समत्सु । स । मत्सु । अषाढः । साह्वान् । पृतनासु । शत्रून् ॥१४०९॥

Samveda - Mantra Number : 1409
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—नृपतिपरः। हे सोम वीर राजन् ! (शूरग्रामः) शूरो ग्रामो योद्धृसङ्घः यस्य सः, (सर्ववीरः) सर्वे प्रजाजना वीरा यस्य सः, (सहावान्) सहनशीलः, (जेता) विजयशीलः, (धनानि) ऐश्वर्याणि (सनिता) दाता, (तिग्मायुधः) तीक्ष्णशस्त्रास्त्रः, (क्षिप्रधन्वा) आशुधनुष्कः, (समत्सु) युद्धेषु (अषादः) अनभिभूतः, (पृतनासु) रिपुसेनासु (शत्रून्) रिपून् (साह्वान्) पराजेता, त्वम्। [‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।१।१२ इति षह मर्षणे इत्येतस्य क्वसौ परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (पवस्व) विक्रमस्व। [पवते गतिकर्मा। निघं० २।१४] ॥ द्वितीयः—जीवात्मपरः। हे सोम जीवात्मन् ! (शूरग्रामः) शूरो ग्रामः प्राणसमूहो यस्य सः, (सर्ववीरः) सर्वे मनोबुद्ध्यादयो वीराः यस्य सः, (सहावान्) उत्साहवान्, (जेता) विजयशीलः, (धनानि) सद्गुणरूपाणि ऐश्वर्याणि (सनिता) संभक्ता, (तिग्मायुधः) तिग्मानि तीक्ष्णानि आयुधानि शत्रुभर्जकतेजांसि यस्य सः, (क्षिप्रधन्वा) क्षिप्रप्रणवजपरूपधनुष्कः। [प्रणवो धनुः। मु० २।२।४ इति प्रामाण्यात्।] (समत्सु) आन्तरिकेषु देवासुरसंग्रामेषु (अषाढः) अपराजितः, (पृतनासु) कामक्रोधादीनां सेनासु (शत्रून्) रिपून् (साह्वान्) पराजितवान् त्वम् (पवस्व) क्रियाशीलो भव, स्वात्मानं पुनीहि वा ॥२॥ अत्र श्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरोऽपि। एतादृशविलक्षणगुणविराजितस्त्वं चेद् विक्रमं न दर्शयसि क्रियाशीलो न भवसि पवित्राचारो वा न जायसे तर्हीमे गुणा भारभूता एवेत्याशयः ॥२॥
Essence
देहे मनुष्यस्यात्मा राष्ट्रे च राजा यदि शत्रून् पराजित्य योगं क्षेमं च विधत्तस्तर्हि देहस्य राष्ट्रस्य च स्वराज्यमक्षुण्णं जायते ॥२॥
Subject
अथ नृपतिं जीवात्मानं चोद्बोधयति।