Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1408

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡म꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णीः꣢ । व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢꣫ सिन्धु꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥१४०८॥

अ꣣भि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । वृ꣡ष꣢꣯णम् । व꣣योधा꣢म् । व꣣यः । धा꣢म् । अ꣣ङ्गोषि꣡ण꣢म् । अ꣣वावशन्त । वा꣡णीः꣢꣯ । व꣡ना꣢꣯ । व꣡सा꣢꣯नः । व꣡रु꣢꣯णः । न । सि꣡न्धुः꣢꣯ । वि । र꣣त्न꣢धाः । र꣣त्न । धाः꣢ । द꣣यते । वा꣡र्या꣢꣯णि ॥१४०८॥

Mantra without Swara
अभि त्रिपृष्ठं वृषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥

अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । वृषणम् । वयोधाम् । वयः । धाम् । अङ्गोषिणम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धुः । वि । रत्नधाः । रत्न । धाः । दयते । वार्याणि ॥१४०८॥

Samveda - Mantra Number : 1408
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—नृपतिपरः। (वाणीः) वाण्यः, प्रजानां वाचः (त्रिपृष्ठम्) त्रीणि पृष्ठानि यस्य तम्—विशः एकं पृष्ठम्, सभासमिती द्वितीयं पृष्ठम्, सेना तृतीयं पृष्ठम्। [स विशोऽनुव्यचलत्, तं सभा च समितिश्च सेना च। (अथ० १५।९।१, २) इति वचनात्।] (वृषणम्) बलवन्तं सुखवर्षकं वा, (वयोधाम्) वयसः अन्नस्य धातारं प्रदातारम्। [वयः इत्यन्ननाम। निरु० ६।४।] (अङ्गोषिणम्) सर्वेषु राज्याङ्गेषु कृतनिवासम्। [अङ्गपूर्वाद् वसतेरिन् प्रत्ययः धातोः सम्प्रसारणं च। ‘स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च राज्याङ्गानि’ इत्यमरः (२।८।१८)।] एतादृशं सोमं नृपतिम् (अभि अवावशन्त) अभि स्तुवन्ति। [वाशृ शब्दे, यङ्लुगन्ताल्लङ्। ‘वावशानः वष्टेर्वा वाश्यतेर्वा’ इति निरुक्तम् (५।१)] (वना) वनानि अरण्यानि (वसानः) आच्छादयन् (वरुणः न) अग्निरिव। [त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒। ऋ० ५।३।१ इति श्रुतेः। ‘यो वै वरुणः सोऽग्निः’ इति च ब्राह्मणम्। (श० ५।२।४।१३)।] (वना) वनानि तेजांसि। [वनमिति रश्मिनाम। निघं० १।५।] (वसानः) धारयन् स सोमो नृपतिः (सिन्धुः) समुद्र इव इति लुप्तोपमम् (रत्नधाः) रत्नाकरः सन् (वार्याणि) वरणीयानि रत्नानि रमणीयानि ऐश्वर्याणि (वि दयते) विशेषेण प्रजाभ्यो ददाति ॥ द्वितीयः—जीवात्मपरः। (त्रिपृष्ठम्) त्रीणि पृष्ठानि ज्ञानकर्मोपासनारूपाणि यस्य तम्, (वृषणम्) बलिनम्, बलवर्षकं वा, (वयोधाम्) वयसः आयुष धारयितारम्, (अङ्गोषिणम्) ईशस्तोमवन्तं सोमं जीवात्मानम्। [आङ्गूषः स्तोमः आघोषः इति यास्कः (निरु० ५।११)] (वाणीः) वेदवाचः (अभि अवावशन्त) स्तुवन्ति, महत्तां वर्णयन्तीत्यर्थः—सू॒रिर॑सि वर्चो॒धा अ॑सि तनूपानो॑ऽसि। आ॒प्नुहि श्रेयां॑समति॑ समं क्रा॒म ॥ अथ० २।११।४ इत्यादिभिरुत्साहप्रदैर्वचोभिरुद्बोधयन्तीत्यर्थः। (वरुणः न) सूर्य इव (वना) तेजांसि (वसानः) धारयन्, (सिन्धुः) रत्नाकरः इव (रत्नधा) रमणीयानां सद्गुणरत्नानां धारयिता स सोमः जीवात्मा (वार्याणि) वारयितव्यानि विघ्नादीनि (विदयते) विशेषेण हिनस्ति ॥१॥ अत्र श्लेषः श्लिष्टोपमा लुप्तोपमा चालङ्कारः ॥१॥
Essence
यो राजा प्रजा अनुरञ्जयति प्रजा अपि तस्य गुणान् गायन्ति। तथैव यो देहधारी जीवात्मा स्वशक्तिं परिचित्य स्वकीयतेजोभिः सर्वानान्तरान् बाह्यांश्च विघ्नानुन्मूलयन्ति स सर्वत्र विजयते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र नृपतेर्जीवात्मनश्च विषय उच्यते।