Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1407

1875 Mantra
Devata- अग्निः Rishi- सुतंभर आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡म꣢ग्ने स꣣प्र꣡था꣢ असि꣣ जु꣢ष्टो꣣ हो꣢ता꣣ व꣡रे꣢ण्यः । त्व꣡या꣢ य꣣ज्ञं꣡ वि त꣢꣯न्वते ॥१४०७॥

त्वम् । अ꣣ग्ने । सप्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । जु꣡ष्टः꣢꣯ । हो꣡ता꣢꣯ । व꣡रे꣢꣯ण्यः । त्व꣡या꣢꣯ । य꣣ज्ञ꣢म् । वि । त꣣न्वते ॥१४०७॥

Mantra without Swara
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते ॥

त्वम् । अग्ने । सप्रथाः । स । प्रथाः । असि । जुष्टः । होता । वरेण्यः । त्वया । यज्ञम् । वि । तन्वते ॥१४०७॥

Samveda - Mantra Number : 1407
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक तेजोमय परमात्मन् ! त्वम् (सप्रथाः) यशस्वी। [प्रथ प्रख्याने, ‘सर्वधातुभ्योऽसुन्।’ उ० ४।१९० इत्यसुन्। प्रथसा सह वर्तते इति सप्रथाः।] (जुष्टः) प्रियः [जुषी प्रीतिसेवनयोः।] (होता) सुखप्रदाता, (वरेण्यः) सर्वैः वरणीयश्च (असि) विद्यसे। उपासकाः (त्वया) त्वत्साहाय्येन (यज्ञम्) जीवनयज्ञम् (वितन्वते) विस्तारयन्ति ॥३॥२
Essence
मानवाः स्वकीयं जीवनयज्ञं परमयशसः परमेश्वरस्य सहयोगेनैव पूर्णतां नेतुं पारयन्ति ॥३॥
Subject
अथ परमेश्वरं स्तौति।