Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1405

1875 Mantra
Devata- अग्निः Rishi- सुतंभर आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्ने꣡ स्तोमं꣢꣯ मनामहे सि꣣ध्र꣢म꣣द्य꣡ दि꣢वि꣣स्पृ꣡शः꣢ । दे꣣व꣡स्य꣢ द्रविण꣣स्य꣡वः꣢ ॥१४०५॥

अ꣣ग्नेः꣢ । स्तो꣡म꣢꣯म् । म꣣नामहे । सिध्र꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दि꣣विस्पृ꣡शः꣢ । दि꣣वि । स्पृ꣡शः꣢꣯ । दे꣣व꣡स्य꣢ । द्र꣣विणस्य꣡वः꣢ ॥१४०५॥

Mantra without Swara
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥

अग्नेः । स्तोमम् । मनामहे । सिध्रम् । अद्य । अ । द्य । दिविस्पृशः । दिवि । स्पृशः । देवस्य । द्रविणस्यवः ॥१४०५॥

Samveda - Mantra Number : 1405
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्रविणस्यवः) धनबलकामाः वयम्। [द्रविणः धनं बलं वा कामयन्ते ये ते द्रविणस्यवः। द्रविणम् शब्दाद् आत्मन इच्छायामर्थे क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः।] (अद्य) अस्मिन् दिने (दिविस्पृशः) दिवि तेजसि स्पर्शयति प्रवेशयति यः तस्य (देवस्य) तेजस्विनः (अग्नेः) अग्रनायकस्य परमात्मनः (सिध्रम्) स्वभावसिद्धम् (स्तोमम्) गुणसमूहम् (मनामहे) मुहुर्मुहुर्गायामः। [म्ना अभ्यासे, पाघ्राध्मास्थाम्ना०। अ० ७।३।७८ इति धातोर्मनादेशः, व्यत्ययेनात्मनेपदम्] ॥१॥२
Essence
परमेश्वरस्योपासनया तदीयगुणगानेन च मनुष्य आध्यात्मिकमैश्वर्यमात्मबलं च प्राप्नोति ॥१॥
Subject
तत्रादौ परमात्मस्तुतिविषयमाह।