Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1404

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣡न्द्र꣢ शु꣣द्धो꣡ हि नो꣢꣯ र꣣यि꣢ꣳ शु꣣द्धो꣡ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ । शु꣣द्धो꣢ वृ꣣त्रा꣡णि꣢ जिघ्नसे शु꣣द्धो꣡ वाज꣢꣯ꣳ सिषाससि ॥१४०४॥

इ꣡न्द्र꣢꣯ । शुद्धः । हि । नः꣣ । रयि꣢म् । शु꣣द्धः꣢ । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ । शु꣣द्धः꣢ । वृ꣣त्रा꣡णि꣢ । जि꣣घ्नसे । शुद्धः꣢ । वा꣡ज꣢꣯म् । सि꣣षाससि ॥१४०४॥

Mantra without Swara
इन्द्र शुद्धो हि नो रयिꣳ शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजꣳ सिषाससि ॥

इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे । शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिषाससि ॥१४०४॥

Samveda - Mantra Number : 1404
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर आचार्य नृपते वा ! (शुद्धः हि) पवित्रः खलु, त्वम् (नः) अस्मभ्यम् (रयिम्) विद्याधनधान्यारोग्याद्यैश्वर्यम् ददासि। (शुद्धः) पवित्रः त्वम् (दाशुषे) आत्मसमर्पणं परोपकारं वा कुर्वते (रत्नानि) रमणीयानि अहिंसासत्यादीनि भौतिकानि वा रत्नानि प्रयच्छसि। [रत्नधातमं रमणीयानां धनानां दातृतमम् इति यास्कः। निरु० ७।१५।] (शुद्धः) पवित्रस्त्वम् (वृत्राणि) विघ्नान् शत्रून् वा (जिघ्नसे) हंसि। [हन हिंसागत्योः, अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुर्व्यत्ययेनात्मनेपदं च।] (शुद्धः) पवित्रस्त्वम् (वाजम्) बलम् (सिषाससि) दातुमिच्छसि। [षणु दाने, सनि रूपम्] ॥३॥
Essence
परमेश्वर आचार्यो राजा च ज्ञानेन कर्मणा चरित्रेण च शुद्धाः सन्त एव विद्यासत्याहिंसारोग्यधनबलादिप्रदानं विघ्नदोषशत्र्वादिनाशनं च कर्तुं क्षमन्ते ॥३॥ अस्मिन् खण्डे परमात्ममहिमवर्णनादाचार्यस्य नृपतेश्चापि गुणवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयमाह।