Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1403

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣡न्द्र꣢ शु꣣द्धो꣢ न꣣ आ꣡ ग꣢हि शु꣣द्धः꣢ शु꣣द्धा꣡भि꣢रू꣣ति꣡भिः꣢ । शु꣣द्धो꣢ र꣣यिं꣡ नि धा꣢꣯रय शु꣣द्धो꣡ म꣢मद्धि सोम्य ॥१४०३॥

इ꣡न्द्र꣢꣯ । शु꣣द्धः꣢ । नः꣣ । आ꣢ । ग꣣हि । शुद्धः꣢ । शु꣣द्धा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ । शु꣣द्धः꣢ । र꣡यि꣢म् । नि । धा꣣रय । शुद्धः꣢ । म꣡मद्धि । सोम्य ॥१४०३॥

Mantra without Swara
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥

इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊतिभिः । शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्य ॥१४०३॥

Samveda - Mantra Number : 1403
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर आचार्य नृपते वा ! (शुद्धः) पवित्रः त्वम् (नः) अस्मान् (आ गहि) आगच्छ, (शुद्धः) पवित्रः त्वम् (शुद्धाभिः) पवित्राभिः (ऊतिभिः) रक्षाभिः सह आगच्छ। (शुद्धः) पवित्रः त्वम्, अस्मासु (रयिम्) आध्यात्मिकं भौतिकं च ऐश्वर्यम् (नि धारय) निधेहि। (शुद्धः) पवित्रः त्वम्, हे (सोम्य) सौम्य परमेश्वर आचार्य नृपते वा ! अस्मान् (ममद्धि) आनन्दय ॥२॥
Essence
यः स्वयं ज्ञानेन, शरीरेण, मनसा, वाचा, कर्मणा च शुद्धः स एवान्यान् शुद्धान् कर्तुं पारयति ॥२॥
Subject
अथ पुनः परमेश्वराचार्यनृपतीनां विषयमाह।