Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1402

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म शु꣣द्ध꣢ꣳ शु꣣द्धे꣢न꣣ सा꣡म्ना꣢ । शु꣣द्धै꣢रु꣣क्थै꣡र्वा꣢वृ꣣ध्वा꣡ꣳस꣢ꣳ शु꣣द्धै꣢रा꣣शी꣡र्वा꣢न्ममत्तु ॥१४०२॥

आ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । शु꣣द्ध꣢म् । शु꣣द्धे꣡न꣢ । सा꣡म्ना꣢꣯ । शु꣣द्धैः꣢ । उ꣣क्थैः꣢ । वा꣣वृ꣢ध्वाꣳस꣢म् । शु꣣द्धैः꣢ । आ꣣शी꣡र्वा꣢न् । आ꣣ । शी꣡र्वा꣢꣯न् । म꣣मत्तु ॥१४०२॥

Mantra without Swara
एतो न्विन्द्रꣳ स्तवाम शुद्धꣳ शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वाꣳसꣳ शुद्धैराशीर्वान्ममत्तु ॥

आ । इत । उ । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना । शुद्धैः । उक्थैः । वावृध्वाꣳसम् । शुद्धैः । आशीर्वान् । आ । शीर्वान् । ममत्तु ॥१४०२॥

Samveda - Mantra Number : 1402
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (एत उ) आगच्छत खलु, (नु) क्षिप्रम्, यूयं वयं च संभूय (शुद्धेन साम्ना) पवित्रेण स्तोत्रेण (शुद्धम्) पवित्रम् (इन्द्रम्) परमात्मानम् आचार्यं नृपतिं वा (स्तवाम) स्तुयाम।(शुद्धैः उक्थैः) पवित्रैः स्तोत्रैः वेदपाठैर्वा (वावृध्वांसम्) वृद्धं प्रत्येकं स्तोतारं शिष्यं प्रजाजनं वा (आशीर्वान्) आशिषां गोपयसां वा अधिपतिः स परमात्मा, आचार्यः, नृपतिर्वा (शुद्धैः) शुद्धैराशीर्वादैः शुद्धैः गोपयोभिर्वा (ममत्तु) आनन्दयतु ॥१॥
Essence
स्तुताः परमेश्वर आचार्यो नृपतिश्च स्तोतॄनाशीर्वादप्रदानेन दुग्धघृताद्यैश्वर्यप्रदानेन च वर्धयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३५० क्रमाङ्केऽध्यात्मविषये व्याख्याता। अत्र परमेश्वरस्याचार्यस्य नृपतेश्च विषय उच्यते।