Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1401

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣡मु꣢ प्रि꣣यो꣡ मृ꣢ज्यते꣣ सा꣢नौ꣣ अ꣡व्ये꣢ य꣣श꣡स्त꣢रो य꣣श꣢सां꣣ क्षै꣡तो꣢ अ꣣स्मे꣢ । अ꣣भि꣡ स्व꣢र꣣ ध꣡न्वा꣢ पू꣣य꣡मा꣢नो यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१४०१॥

स꣢म् । उ꣣ । प्रियः꣢ । मृ꣣ज्यते । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । य꣣श꣡स्त꣢रः । य꣣श꣡सा꣢म् । क्षै꣡तः꣢꣯ । अ꣣स्मे꣢इति꣢ । अ꣣भि꣢ । स्व꣣र । ध꣡न्व꣢꣯ । पू꣣य꣡मा꣢नः । यू꣣य꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢꣯ । स꣡दा꣢꣯ । नः꣣ ॥१४०१॥

Mantra without Swara
समु प्रियो मृज्यते सानौ अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥

सम् । उ । प्रियः । मृज्यते । सानौ । अव्ये । यशस्तरः । यशसाम् । क्षैतः । अस्मेइति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१४०१॥

Samveda - Mantra Number : 1401
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे विद्वन् ! (क्षैतः) क्षितिः पृथिवी तस्यां विद्यमानः (यशसाम्) यशस्विनां मध्ये (यशस्तरः) यशस्वितरः (प्रियः) सर्वेषां स्नेहभाजनभूतो भवान् (अस्मे) अस्मदर्थम् (अव्ये सानौ) राष्ट्रभूमेः उच्चपदे। [अविः पृथिवी तस्या इदम् अव्यम्।] (सं मृज्यते उ) अलङ्क्रियते अभिषिच्यते वा। (पूयमानः) पवित्रीक्रियमाणः त्वम् (धन्व) अन्तरिक्षम्। [धन्व इति अन्तरिक्षनाम। निघं० १।३। धन्व अन्तरिक्षं धन्वन्त्यस्मादापः निरु० ५।५।] (अभि स्वर) अभिशब्दय, जयघोषैरन्तरिक्षमापूरयेत्यर्थः। [स्वृ शब्दोपतापयोः, भ्वादिः।] हे विद्वांसः ! (यूयम् स्वस्तिभिः) कल्याणैः (नः) अस्मान् राष्ट्रवासिनः (सदा) नित्यम् (पात) रक्षत ॥३॥
Essence
राष्ट्रे पवित्राचरणा विद्वांस एवोच्चपदेषु प्रतिष्ठापनीयाः ॥३॥
Subject
अथ विद्वानुच्यते।