Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1400

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भ꣣द्रा꣡ वस्त्रा꣢꣯ सम꣣न्या꣢३꣱व꣡सा꣢नो म꣣हा꣢न्क꣣वि꣢र्नि꣣व꣡च꣢नानि꣣ श꣡ꣳस꣢न् । आ꣡ व꣢च्यस्व च꣣꣬म्वोः꣢꣯ पू꣣य꣡मा꣢नो विचक्ष꣣णो꣡ जागृ꣢꣯विर्दे꣣व꣡वी꣢तौ ॥१४००॥

भ꣣द्रा꣢ । व꣡स्त्रा꣢꣯ । स꣣मन्या꣢ । व꣡सा꣢꣯नः । म꣣हा꣢न् । क꣣विः꣢ । नि꣣व꣡च꣢नानि । नि꣣ । व꣡च꣢꣯नानि । श꣡ꣳस꣢꣯न् । आ । व꣣च्यस्व । च꣣म्वोः꣢ । पू꣣य꣡मा꣢नः । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ । जा꣡गृ꣢꣯विः । दे꣣व꣡वी꣢तौ । दे꣣व꣢ । वी꣣तौ ॥१४००॥

Mantra without Swara
भद्रा वस्त्रा समन्या३वसानो महान्कविर्निवचनानि शꣳसन् । आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥

भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । निवचनानि । नि । वचनानि । शꣳसन् । आ । वच्यस्व । चम्वोः । पूयमानः । विचक्षणः । वि । चक्षणः । जागृविः । देववीतौ । देव । वीतौ ॥१४००॥

Samveda - Mantra Number : 1400
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! (समन्या) समन्यानि संग्रामयोग्यानि। [समनम् इति संग्रामनाम। निघं० २।१७।] (भद्रा) भद्राणि (वस्त्रा) वस्त्राणि(वसानः) धारयन्, (महान्) महत्त्वशाली, (कविः) विद्वान्, (निवचनानि) स्तोत्राणि (शंसन्) कीर्तयन् (चम्वोः) आत्ममनसोः (पूयमानः) पवित्रीक्रियमाणः, (विचक्षणः) दूरद्रष्टा, (देववीतौ) परमात्मपूजायाम् (जागृविः) जागरूकः त्वम् (आ वच्यस्व) समन्ततः प्रशंसां प्राप्नुहि। [वचेः सम्प्रसारणाभावश्छान्दसः] ॥२॥
Essence
विघ्नैर्विपद्भिश्च परिपूर्णत्वात् संग्रामकल्पे जीवने मानवो हृदि वीरभावान् निधाय वीरोचितं वेशभूषादिकं संधार्य वीरोचितानि कार्याणि कुर्वन् जागरूको मनसा पवित्रः परमेश्वरपूजकश्च सन् यशस्वी भवेत् ॥२॥
Subject
अथ मानवमुद्बोधयति।