Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 140

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
बो꣡ध꣢न्मना꣣ इ꣡द꣢स्तु नो वृत्र꣣हा꣡ भूर्या꣢꣯सुतिः । शृ꣣णो꣡तु꣢ श꣣क्र꣢ आ꣣शि꣡ष꣢म् ॥१४०॥

बो꣡ध꣢꣯न्मनाः । बो꣡ध꣢꣯त् । म꣣नाः । इ꣢त् । अ꣣स्तु । नः । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । भू꣡र्या꣢꣯सुतिः । भू꣡रि꣢꣯ । आ꣣सुतिः । शृणो꣡तु꣢ । श꣣क्रः꣢ । आ꣣शि꣡ष꣢म् । आ꣣ । शि꣡ष꣢꣯म् ॥१४०॥

Mantra without Swara
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥

बोधन्मनाः । बोधत् । मनाः । इत् । अस्तु । नः । वृत्रहा । वृत्र । हा । भूर्यासुतिः । भूरि । आसुतिः । शृणोतु । शक्रः । आशिषम् । आ । शिषम् ॥१४०॥

Samveda - Mantra Number : 140
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृत्रहा) पाप्मनां हन्ता। पाप्मा वै वृत्रः। श० ११।१।५।७। (भूर्यासुतिः२) बहुरसः रसो वै सः। तै० उ० २।७। आसूयन्ते निश्च्योत्यन्ते इति आसुतयः रसाः, षुञ् अभिषवे। इन्द्रः परमेश्वरः (नः) अस्मभ्यम् (बोधन्मनाः३) बोधत् प्रबुध्यत् मनो यस्मात् सः, मनसः प्रबोधदायक इत्यर्थः। (इत्) एव (अस्तु) भवतु। सः (शक्रः) शक्तिमान् परमेश्वरः। शक्लृ शक्तौ, स्फायितञ्चिवञ्चिशकि०। उ० २।१३ इति रक् प्रत्ययः। (आशिषम्) अस्माकं महत्त्वाकाङ्क्षाम् (शृणोतु) आकर्णयतु, पूरयतु ॥६॥ अत्र वृत्रहा, शक्रः इत्यनयोरिन्द्रार्थे प्रसिद्धत्वात् पुनरुक्तवदाभासोऽलङ्कारः, यौगिकार्थग्रहणेन च पुनरुक्तेः परिहारः। शृणोतु इत्यस्य च पूरणे लक्षणा ॥६॥
Essence
यः परमात्मा दोषाणां हन्ता, अधर्माणां निरस्ता, पापानां विनाशकः, आनन्दरसस्य सागरः, सर्वशक्तिमाँश्च विद्यते सोऽस्माकं मनः प्रबोध्य दीर्घायुष्य-समृद्धि-विजय-मोक्षादीनां महत्त्वाकांक्षाः पूरयेत्।
Subject
परमेश्वरोऽस्माकं प्रार्थनां शृणुयादित्याह।
Footnote
१. ऋ० ८।९३।१८, ऋषिः सुकक्षः। बोधिन्मना इति पाठः। २. भूरि आसुतिर्यस्य स भूर्यासुतिः बहुरस इत्यर्थः—इति वि०। भूर्यासुतिः बह्वन्नसोमपान इत्यर्थः—इति भ०। बहुषु देवेषु इन्द्रार्थं सोमा आसूयन्ते अभिषूयन्ते इति तादृशः, यद्वा बहूनि सोमादिहवींषि इन्द्रार्थम् आसूयन्ते हूयन्त इति तादृशः—इति सा०। ३. बुध्यति मनो यस्य बोधन्मनाः—इति वि०। बुध्यमानचित्तः स्तोमावधारणपरचित्तः—इति भ०। बुध अवगमने, औणादिकोऽत् प्रत्ययः। यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः—इति सा०।