Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1399

1875 Mantra
Devata- पवमानः सोमः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣स्य꣢ प्रे꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नो दे꣣वो꣢ दे꣣वे꣢भिः꣢ स꣡म꣢पृक्त꣣ र꣡स꣢म् । सु꣣तः꣢ प꣣वि꣢त्रं꣣ प꣡र्ये꣢ति꣣ रे꣡भ꣢न्मि꣣ते꣢व꣣ स꣡द्म꣢ पशु꣣म꣢न्ति꣣ हो꣡ता꣢ ॥१३९९॥

अ꣣स्य꣢ । प्रे꣣षा꣢ । हे꣣म꣡ना꣢ । पू꣣य꣢मा꣢नः । दे꣣वः꣢ । दे꣣वे꣡भिः꣢ । सम् । अ꣣पृक्त । र꣡स꣢꣯म् । सु꣣तः꣢ । प꣣वि꣡त्र꣢म् । प꣡रि꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् । मि꣣ता꣢ । इ꣣व । स꣡द्म꣢꣯ । प꣣शुम꣡न्ति꣢ । हो꣡ता꣢꣯ ॥१३९९॥

Mantra without Swara
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥

अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिता । इव । सद्म । पशुमन्ति । होता ॥१३९९॥

Samveda - Mantra Number : 1399
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) पवमानस्य सोमस्य पवित्रतासम्पादिनोऽन्तर्यामिनो जगदीश्वरस्य (प्रेषा) प्रेरणया (हेमना) ज्योतिषा च। [हेमना हेम्ना, अल्लोपाभावश्छान्दसः।] (पूयमानः) पवित्रीक्रियमाणः, (देवः) प्रकाशकः तापमयः सूर्यः (देवेभिः) प्रकाशकैः सन्तापकैः रश्मिभिः (रसम्) भूम्या उदकम् (समपृक्त) संपृक्ते। (सुतः) वाष्पीकृत्य (ऊर्ध्वं) प्रेरितः मेघाकारतां गतः स रसः (रेभन्) स्तनयित्नुशब्दं कुर्वन् (पवित्रम्) अन्तरिक्षम् (पर्येति) परिभ्रमति। कथमिव ? (होता) तन्नामा ऋत्विक् (मिता) मितानि निर्मितानि (पशुमन्ति) धेनुयुक्तानि (सद्म इव) सद्मानि गोसदनानि यथा गोदुग्धघृतादिप्राप्त्यर्थम् पर्येति तद्वत् ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
योऽयमादित्यः स्वतापेन भूमिष्ठं सलिलं वाष्पीकृत्यान्तरिक्षे मेघान् रचयति वर्षति च स सर्वोऽपि महिमा परमेश्वरस्यैव ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२६ क्रमाङ्के जीवात्मपरमात्मविषये व्याख्याता। अत्र सूर्यवर्णनेन परमात्महिमा प्रकाश्यते।