Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1398

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ब्र꣡ह्म꣢ प्र꣣जा꣢व꣣दा꣡ भ꣢र꣣ जा꣡त꣢वेदो꣣ वि꣡च꣢र्षणे । अ꣢ग्ने꣣ य꣢द्दी꣣द꣡य꣢द्दि꣣वि꣢ ॥१३९८॥

ब्र꣡ह्म꣢꣯ । प्र꣣जा꣡व꣢त् । प्र꣡ । जा꣡व꣢꣯त् । आ । भ꣣र । जा꣡त꣢꣯वेदः । जा꣡त꣢꣯ । वे꣡दः । वि꣡च꣢꣯र्षणे । वि । च꣣र्षणे । अ꣡ग्ने꣢꣯ । यत् । दी꣣द꣡य꣢त् । दि꣣वि꣢ ॥१३९८॥

Mantra without Swara
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । अग्ने यद्दीदयद्दिवि ॥

ब्रह्म । प्रजावत् । प्र । जावत् । आ । भर । जातवेदः । जात । वेदः । विचर्षणे । वि । चर्षणे । अग्ने । यत् । दीदयत् । दिवि ॥१३९८॥

Samveda - Mantra Number : 1398
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विचर्षणे) शिष्याणां हिताहितयोर्द्रष्टः, (जातवेदः) उत्पन्नानां पदार्थानां विद्यानां वा वेत्तः (अग्ने) आचार्यवर ! त्वम् (प्रजावत्)उत्पन्नसृष्टिविज्ञानसहितम् (ब्रह्म) ब्रह्मज्ञानम् (आभर) अस्मभ्यम् आहर, प्रदेहि, (यत् दिवि) द्योतनात्मके अस्माकमात्मनि (दीदयत्) दीप्येत ॥३॥२
Essence
गुरवो विद्यार्थिनः सृष्टिविज्ञानेन पदार्थविज्ञानेन भूगोलखगोलादिविज्ञानेन शिल्पविज्ञानेन च सह ब्रह्मविज्ञानमपि शिक्षयेयुः ॥३॥
Subject
अथ पुनरप्याचार्यविषयो वर्ण्यते।