Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1396

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥१३९६॥

अ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः ॥१३९६॥

Mantra without Swara
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः ॥१३९६॥

Samveda - Mantra Number : 1396
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विपन्यया) शिष्याणां विनयव्यवहारेण (समिद्धः) प्रदीपितः प्रोत्साहितः, (शुक्रः) पवित्रहृदयः, (आहुतः) शिष्यैः कृतात्मसमर्पणः (अग्निः) विद्यया प्रकाशितः आचार्यः(द्रविणस्युः) शिष्याणां विद्याधनप्रदानकामः सन् तेषाम्(वृत्राणि) दोषान् (जङ्घनत्) भृशं हन्यात् ॥१॥२
Essence
गुरूणामेतत् कर्तव्यं यत्ते विद्याप्रदानेन सह शिष्याणां दोषानपि दूरीकुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यविषय उच्यते।