Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1395

1875 Mantra
Devata- पवमानः सोमः Rishi- ऊर्ध्वसद्मा आङ्गिरसः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
स꣣ह꣡स्र꣢धारं वृष꣣भं꣡ प꣢यो꣣दु꣡हं꣢ प्रि꣣यं꣢ दे꣣वा꣢य꣣ ज꣡न्म꣢ने । ऋ꣣ते꣢न꣣ य꣢ ऋ꣣त꣡जा꣢तो विवावृ꣣धे꣡ राजा꣢꣯ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥१३९५॥

स꣣ह꣡स्र꣢धारम् । स꣣ह꣡स्र꣢ । धा꣣रम् । वृषभ꣢म् । प꣣योदु꣡ह꣢म् । प꣣यः । दु꣡ह꣢꣯म् । प्रि꣣य꣢म् । दे꣣वा꣡य꣢ । ज꣡न्म꣢꣯ने । ऋ꣣ते꣡न꣢ । यः । ऋ꣣त꣡जा꣢तः । ऋ꣣त꣢ । जा꣣तः । विवावृधे꣢ । वि꣣ । वावृधे꣢ । रा꣡जा꣢꣯ । दे꣣वः꣢ । ऋ꣣त꣢म् । बृ꣡ह꣢त् ॥१३९५॥

Mantra without Swara
सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने । ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥

सहस्रधारम् । सहस्र । धारम् । वृषभम् । पयोदुहम् । पयः । दुहम् । प्रियम् । देवाय । जन्मने । ऋतेन । यः । ऋतजातः । ऋत । जातः । विवावृधे । वि । वावृधे । राजा । देवः । ऋतम् । बृहत् ॥१३९५॥

Samveda - Mantra Number : 1395
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऋतजातः) सत्ये प्रसिद्धः (यः) सोमो जगदीश्वरः (ऋतेन)सत्येन (वि वावृधे) विशेषेण महिम्ना वर्द्धते, यश्च (राजा)विश्वसम्राट्, (देवः) प्रकाशकः, (ऋतम्) सत्यस्वरूपः, (बृहत्) महांश्च वर्तते, तम् (सहस्रधारम्) सहस्रधारमयम्, (वृषभम्) कामवर्षकम्, (पयोदुहम्) आनन्दरूपस्य पयसः प्रदातारम् (प्रियम्) तृप्तिप्रदं जगदीश्वरम् (देवाय जन्मने) दिव्यजन्मप्राप्तये (आ सोत) आनन्दरसं स्रावयत(परिसिञ्चत) परिवर्षत चेति पूर्वेण सम्बन्धः ॥२॥
Essence
आनन्दरसागारात् परमात्मन आनन्दरसं परिस्राव्य मानवैः स्वात्मा पावनीयः ॥२॥ अस्मिन् खण्डे जीवात्मनः परमात्मनो ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि ब्रह्मानन्दविषयमाह।