Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1394

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋजिश्वा भारद्वाजः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
आ꣡ सो꣢ता꣣ प꣡रि꣢ षिञ्च꣣ता꣢श्वं꣣ न꣡ स्तोम꣢꣯म꣣प्तु꣡र꣢ꣳ रज꣣स्तु꣡र꣢म् । व꣣नप्रक्ष꣡मु꣢द꣣प्रु꣡त꣢म् ॥१३९४॥

आ꣢ । सो꣣त । प꣡रि꣢꣯ । सि꣣ञ्चत । अ꣡श्व꣢꣯म् । न । स्तो꣡म꣢꣯म् । अ꣣प्तु꣡र꣢म् । र꣣जस्तु꣡र꣢म् । व꣣नप्रक्ष꣢म् । व꣣न । प्रक्ष꣢म् । उ꣣दप्रु꣡त꣢म् । उ꣣द । प्रु꣡त꣢꣯म् ॥१३९४॥

Mantra without Swara
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरꣳ रजस्तुरम् । वनप्रक्षमुदप्रुतम् ॥

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्तुरम् । रजस्तुरम् । वनप्रक्षम् । वन । प्रक्षम् । उदप्रुतम् । उद । प्रुतम् ॥१३९४॥

Samveda - Mantra Number : 1394
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (स्तोमम्) स्तोतव्यम्, (अप्तुरम्) प्राणेषु गतिप्रदातारम्, (रजस्तुरम्) पृथिवीसूर्यादिलोकेषु गतिप्रदातारम्, (अनप्रक्षम्) अरण्यानां वृष्टिजलेन सेक्तारम्, (उदप्रुतम्) उदकानां प्रवाहयितारं सोमं परमात्मानम् (आ सोत) आनन्दरसं आक्षारयत, तं च (अश्वं न) पर्जन्यमिव२ (परिसिञ्चत) परिवर्षत ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा पर्जन्यो भूमिं पयसा सिञ्चति तथैवोपासकैर्ब्रह्मानन्देन स्वात्मा परेषां चात्मा मुहुर्मुहुः सेचनीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५८० क्रमाङ्के परमेश्वराराधनविषये व्याख्याता। अत्र ब्रह्मानन्दविषयो वर्ण्यते।