Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1391

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः
Mantra with Swara
आ꣡ त्वा꣢ स꣣ह꣢स्र꣣मा꣢ श꣣तं꣢ यु꣣क्ता꣡ रथे꣢꣯ हिर꣣ण्य꣡ये꣢ । ब्र꣣ह्म꣢युजो꣣ ह꣡र꣢य इन्द्र के꣣शि꣢नो꣣ व꣡ह꣢न्तु꣣ सो꣡म꣢पीतये ॥१३९१॥

आ꣢ । त्वा꣣ । सह꣡स्र꣢म् । आ । शत꣣म्꣢ । यु꣣क्ताः꣢ । र꣡थे꣢꣯ । हि꣣रण्य꣡ये꣢ । ब्र꣣ह्मयु꣡जः꣢ । ब्र꣣ह्म । यु꣡जः꣢꣯ । ह꣡र꣢꣯यः । इ꣣न्द्र । केशि꣡नः꣢꣯ । व꣡ह꣢꣯न्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१३९१॥

Mantra without Swara
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥

आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये ॥१३९१॥

Samveda - Mantra Number : 1391
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मये (रथे) रंहणशीले आदित्यमण्डले (युक्ताः) नियुक्ताः, (ब्रह्मयुजः) ब्रह्मभिः महद्भिः ग्रहोपग्रहैः युज्यन्ते इति तादृशाः, (केशिनः) प्रकाशमयाः प्रकाशकाश्च, (सहस्रम्) सहस्रसंख्यकाः (हरयः) हरणशीलाः रश्मयः। [युक्ता ह्यस्य हरयः शता दश (ऋ० ६।४७।१८) इति सहस्रं हैत आदित्यस्य रश्मयः। तेऽस्य युक्ताः, तैरिदं सर्वं हरति। तद् यदेतैरिदं सर्वं हरति तस्माद्धरयः। जै० उ० ब्रा० १।४४।५।] (सोमपीतये) परमानन्दरसस्य पानाय (त्वा) त्वाम् (आवहन्तु) अस्मदन्तिके प्रापयन्तु, (शतं सहस्रम्२) शतसहस्रसंख्यकाः हरयः रश्मयः त्वाम् (आ) आवहन्तु अस्मदन्तिके प्रापयन्तु। सूर्यस्तत्किरणाश्चावलोकयितॄणां पुरतः परमात्मन एव महिमानं प्रकाशयन्तीत्येतदभिप्रायेणेदम् उक्तम् ॥१॥
Essence
अग्निवाय्वादित्यनक्षत्रपर्जन्यसरित्सागरादिषु विद्यमानां विभूतिं दृष्ट्वा तन्निर्मातरि जगदीश्वरे श्रद्धां कृत्वा विद्वांसस्तदुपासनेन परमानन्दमनुभवन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४५ क्रमाङ्केऽध्यात्मपरत्वेन राष्ट्रपरत्वेन च व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमा प्रकाश्यते।