Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1390

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
न꣡ की꣢ रे꣣व꣡न्त꣢ꣳ स꣣ख्या꣡य꣢ विन्दसे꣣ पी꣡य꣢न्ति ते सुरा꣣꣬श्वः꣢꣯ । य꣣दा꣢ कृ꣣णो꣡षि꣢ नद꣣नु꣡ꣳ समू꣢꣯ह꣣स्या꣢꣫दित्पि꣣ते꣡व꣢ हूयसे ॥१३९०॥

न꣢ । किः꣣ । रेव꣡न्त꣢म् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । वि꣣न्दसे । पी꣡य꣢꣯न्ति । ते꣣ । सुराश्वः꣢ । य꣣दा꣢ । कृ꣣णो꣡षि꣢ । न꣣दनु꣢म् । सम् । ऊह꣣सि । आ꣢त् । इत् । पि꣣ता꣢ । इ꣣व । हूयसे ॥१३९०॥

Mantra without Swara
न की रेवन्तꣳ सख्याय विन्दसे पीयन्ति ते सुराश्वः । यदा कृणोषि नदनुꣳ समूहस्यादित्पितेव हूयसे ॥

न । किः । रेवन्तम् । सख्याय । स । ख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः । यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिता । इव । हूयसे ॥१३९०॥

Samveda - Mantra Number : 1390
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे सर्वान्तर्यामिन् जगदीश्वर ! त्वम् रेवन्तम् केवलधनवन्तं दानपरोपकारादिरहितं जनम् (सख्याय) सखिभावाय (न किः) न कदापि (विन्दसे) प्राप्नोषि, (ते) केवलधनवन्तो जनाः (सुराश्वः) सुरापानेन प्रमत्ताः इव धनमदप्रमत्ताः सन्तः। [सुरया श्वयति वर्द्धते प्रमत्तो भवति यः स सुराशूः, ते सुराश्वः।] (पीयन्ति) हिंसन्ति दीनान् जनान् पीडयन्ति। [पीयतिः हिंसाकर्मा। निरु० ४।२५।] (यदा) यस्मिन् काले, त्वम् धनवन्तं जनम् (नदनुम्) स्तोतारम् (कृणोषि) करोषि, तदा (समूहसि) संवहसि, शोभनां स्थितिं प्रापयसि, (आत् इत्) तदनन्तरमेव, तेन त्वम् (पिता इव) जनक इव (हूयसे) स्तूयसे ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
धनं प्राप्य ये जना ऐश्वर्यमदमत्ता नास्तिकाः सन्तो न सत्पात्रेषु धनदानं कुर्वन्ति, न धर्माचारं सेवन्ते, न परमेश्वरमुपासते तेषां धनं धनं न प्रत्युत तत्कृते मृत्युरेव ॥२॥
Subject
अथ परमात्मानं सम्बोधयति।