Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 139

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते । क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥१३९॥

सो꣣मा꣡ना꣢म् । स्व꣡र꣢꣯णम् । कृ꣣णुहि꣢ । ब्र꣣ह्मणः । पते । कक्षी꣡व꣢न्तम् । यः । औ꣣शिजः꣢ ॥१३९॥

Mantra without Swara
सोमानाꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥

सोमानाम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः ॥१३९॥

Samveda - Mantra Number : 139
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ब्रह्मणस्पते) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामिन् इन्द्र२ जगदीश्वर ! षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (यः) योऽहम् (औशिजः३) यः सर्वा विद्या वष्टि कामयते स उशिग् मेधावी आचार्यः तस्य विद्यापुत्रः, अस्मि। उशिज इति मेधाविनामसु पठितम्। निघं० ३।१५। तम् (कक्षीवन्तम्) कक्षयोः बाहुमूलयोः भवा क्रिया कक्ष्या (तद्वन्तं) सदा क्रियावन्तं माम् (सोमानाम्) ज्ञानानाम्। षू प्रेरणे। सूयन्ते प्रेर्यन्ते गुरुणा शिष्ये इति सोमाः ज्ञानानि। (स्वरणम्४) प्रकाशनवन्तम् उपदेष्टारं वा। स्वृ शब्दोपतापयोः धातोः कृत्यल्युटो बहुलम्।’ अ० ३।३।११३ इति कर्तरि ल्युट्। (कृणुहि) कुरु। कृवि हिंसाकरणयोश्च इति धातोः उतश्च प्रत्ययाच्छन्दो वा वचनम्।’ अ० ६।४।१०६ वा० अनेन वार्तिकेन विकल्पाद् हेर्लोपो न भवति ॥५॥५ मन्त्रमेतं यास्काचार्य एवं व्याख्यातवान्—सोमानां सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते। कक्षीवन्तम् इव य औशिजः। कक्षीवान्, कक्ष्यावान्, औशिज उशिजः पुत्रः। उशिक् वष्टेः कान्तिकर्मणः। अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्। तं सोमानां सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते। निरु० ६।१०।
Essence
गुरुकुले विद्यामधीत्य गुरोर्विद्यापुत्रो भूत्वा विद्यानुरूपं कर्म कुर्वाणोऽहमस्मि। तादृशं मां हे परमेश्वर ! त्वं विद्यायाः प्रकाशकम् उपदेष्टारं च कुरु, येनाहमपि सत्पात्रेभ्यो विद्यादानं कुर्याम् ॥५॥ अत्र विवरणकृता माधवेन, भरतस्वामिना, सायणाचार्येण च औशिजः इत्यनेन उशिङ्नाम्न्या मातुः पुत्रः कक्षीवान्नाम ऋषिर्गृहीतः, यस्य दीर्घतमाः पिता बभूव। लुप्तोपमां च स्वीकृत्य इव शब्दमध्याहृत्य, तं कक्षीवन्तमिव मां कीर्तिमन्तं कुरु इति व्याख्यातम्। तन्न विचारसहम्, वेदानां सृष्ट्यादौ परमेश्वरप्रोक्तत्वेन तत्र पश्चाद्वर्तिन इतिहासस्यासंभवात् ॥
Subject
अथ वेदादीनां पतिरिन्द्रः प्रार्थ्यते।
Footnote
१. ऋ० १।१८।१, देवता ब्रह्मणस्पतिः। य० ३।२८, देवता बृहस्पतिः। उभयत्र सोमानम् इति पाठः। साम० १४६३। २. इन्द्रदेवताकत्वाद् ऋचः, ब्रह्मणस्पते इति इन्द्रस्यैव विशेषणं बोध्यम्। ३. यः सर्वा विद्या वष्टि स उशिक्, तस्य विद्यापुत्र इव इति य० ३।२८ भाष्ये द०। ४. (स्वरणम्) यः स्वरति शब्दार्थसम्बन्धानुपदिशति तम्—इति ऋ० १।१८।१ भाष्ये द०। स्वृ शब्दोपतापयोरित्येतस्यैतद् रूपम्। शब्दयितारं स्तुतीनामुच्चारयितारम्—इति वि०। शब्दवन्तं कीर्तिमन्तम्—इति भ०। देवेषु प्रकाशनवन्तम्—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च हे परमेश्वर ! योऽहं विद्यावतः पुत्र इवास्मि तं मां प्रशस्तशिल्पविद्यावन्तं सर्वविद्याप्रवक्तारं च कुरु इत्यादिविषये व्याख्यातः।