Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1388

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रजापतिर्वैश्वामित्रो वाच्यो वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
स꣢ वी꣣रो꣡ द꣢क्ष꣣सा꣡ध꣢नो꣣ वि꣢꣫ यस्त꣣स्त꣢म्भ꣣ रो꣡द꣢सी । ह꣡रिः꣢ प꣣वि꣡त्रे꣢ अव्यत वे꣣धा꣡ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८८॥

सः । वी꣣रः꣢ । द꣣क्षसा꣡ध꣢नः । द꣣क्ष । सा꣡ध꣢꣯नः । वि । यः । त꣣स्त꣡म्भ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣व्यत । वेधाः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८८॥

Mantra without Swara
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥

सः । वीरः । दक्षसाधनः । दक्ष । साधनः । वि । यः । तस्तम्भ । रोदसीइति । हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आसदम् । आ । सदम् ॥१३८८॥

Samveda - Mantra Number : 1388
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (वीरः) कामक्रोधादिशत्रुप्रकम्पकः शूरः सोमः परमेश्वरः। [वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणः, वीरयतेर्वा। निरु० १।६।] (दक्षसाधनः) बलसाधनो वर्तते, (यः रोदसी) द्यावापृथिव्यौ (तस्तम्भ) धारयति। (वेधाः न) सूर्य इव सः (हरिः) पापहर्ता सोमः परमेश्वरः (योनिम्) आत्मरूपं गृहम् (आसदम्) आसत्तुम् (पवित्रे) परिपूतेऽन्तःकरणे (अव्यत) आगच्छति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
यो बलवान् जगदीश्वरः सर्वं जगद्धारयति तस्योपासनेन सीमितशक्तिरपि मानवो महाशक्तिः शत्रुपराजयसमर्थश्च जायते ॥३॥
Subject
अथ परमेश्वरस्य महत्त्वमाह।