Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1387

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रजापतिर्वैश्वामित्रो वाच्यो वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣢ जा꣣मि꣡रत्के꣢꣯ अव्यत भु꣣जे꣢꣫ न पु꣣त्र꣢ ओ꣣꣬ण्योः꣢꣯ । स꣡र꣢ज्जा꣣रो꣡ न योष꣢꣯णां व꣣रो꣢ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८७॥

आ꣢ । जा꣣मिः꣢ । अ꣡त्के꣢꣯ । अ꣣व्यत । भुजे꣢ । न । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । ओ꣣ण्योः꣣꣬ । स꣡र꣢꣯त् । जा꣣रः꣢ । न । यो꣡ष꣢꣯णाम् । व꣣रः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८७॥

Mantra without Swara
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । सरज्जारो न योषणां वरो न योनिमासदम् ॥

आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । पुत् । त्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम् । आ । सदम् ॥१३८७॥

Samveda - Mantra Number : 1387
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
जामिः अस्माकं (बन्धुभूतः) सोमः परमेश्वरः। [स नो॒ बन्धु॑र्जनि॒ता। य० ३२।१० इति स्मरणात्।] (अत्के) अन्तरात्मनि। अत सातत्यगमने। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३ इति कन् प्रत्ययः। ‘अततीति अत्कः वायुः आत्मा च’ इति दशपाद्युणादिवृत्तिकारः माणिक्यः। (अव्यत) आव्यत, (अस्माभिः) आनीयते। [अवतेर्गत्यर्थात् कर्मणि लङि आडागमाभावे रूपम्।] (न) यथा (पुत्रः) तनयः (ओण्योः) मातापित्रोः। [ओण्योः इति द्यावापृथिवीनामसु पठितम्। निघं० ३।३०। द्यौ॒॑३ष्पितः॒ पृथि॑वि॒ मातः॒। ऋ० ६।५१।५ इति वचनात् तयोर्मातापितृत्वम्।] (भुजे) बाहौ यथा आनीयते, स च (सरत्) अस्मान् प्रति आगच्छति, (जारः न) सूर्यो यथा (योषणाम्) रात्रिम् (सरत्) गच्छति। [इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य (अथ० १९।४९।१) इति वचनाद् रात्रिः सूर्यस्य योषा। आदित्योऽत्र जार उच्यते, रात्रेर्जरयिता। निरु० ३।१६। सरत् इति सृ गतौ धातोर्लेटि रूपम्।] अपि च (वरः न) वरः यथा, कन्यां विवाह्य (योनिम्) गृहम् (आसदम्) आसत्तुं (सरत्) आ गच्छति, तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
पुत्रवज्जायावद् गृहवच्च प्रियं परमेश्वरं प्रेम्णा श्रद्धया च हृदि ध्यात्वा स्तोतारः परमां तृप्तिमानन्दं च लभन्ते ॥२॥
Subject
अथोपासको ब्रूते।