Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1383

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥१३८३॥

अ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्व꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥१३८३॥

Mantra without Swara
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥

अग्ने । युङ्क्ष्व । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । आशवः ॥१३८३॥

Samveda - Mantra Number : 1383
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) ज्ञानेन प्रकाशमान (अग्ने) देहाधिष्ठातः मदीय अन्तरात्मन् ! (ये तव) ये त्वदीयाः (साधवः) भद्राः, (आशवः) आशुगामिनः, (अश्वासः) मनोबुद्धिप्राणेन्द्रियरूपाः तुरङ्गाः, (अरम्) अलम्, पर्याप्तम् (वहन्ति) देहरथं चालयन्ति, तान् (युङ्क्ष्व हि) कार्ये योजय खलु ॥१॥२
Essence
मनुष्यस्यात्मा यदि सावधानो नास्ति तर्हि तस्य मनइन्द्रियादयोऽश्वाः कुपथगामिनो जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र स्वान्तरात्मा प्रबोध्यते।