Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1382

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣त꣡ ब्रु꣢वन्तु ज꣣न्त꣢व꣣ उ꣢द꣣ग्नि꣡र्वृ꣢त्र꣣हा꣡ज꣢नि । ध꣣नञ्जयो꣡ रणे꣢꣯रणे ॥१३८२॥

उ꣣त꣢ । ब्रु꣣वन्तु । जन्त꣡वः꣢ । उत् । अ꣣ग्निः꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । अ꣣जनि । धनञ्जयः꣢ । ध꣣नम् । जयः꣢ । र꣡णे꣢꣯रणे । र꣡णे꣢꣯ । र꣢णे ॥१३८२॥

Mantra without Swara
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणे ॥

उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्रहा । वृत्र । हा । अजनि । धनञ्जयः । धनम् । जयः । रणेरणे । रणे । रणे ॥१३८२॥

Samveda - Mantra Number : 1382
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उत) अपि च (जन्तवः) अधिगतद्वितीयजन्मानो द्विजाः उपासकाः। [जन्यन्ते आचार्येण ये ते जन्तवो द्विजाः। कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३ इति जनेस्तुः प्रत्ययः।] (ब्रुवन्तु) हर्षेण कथयन्तु यत् अयम् (वृत्रहा) विघ्नहन्ता (अग्निः) अग्रनायकः परमेश्वरः (उद् अजनि) अस्माकं हृदये प्रादुर्भूतोऽस्ति। यः (रणे-रणे) संग्रामे संग्रामे, प्रतिदेवासुरसंग्रामम् (धनञ्जयः२) दिव्यधनस्य प्रापयिता वर्तते ॥४॥३
Essence
आन्तरिके बाह्ये चापि देवासुरसंग्रामे परमेश्वरविश्वासिनां विजयो भवति विजयेन च तैर्दिव्यानि भौतिकानि च धनानि प्राप्यन्ते ॥४॥ अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति मन्तव्यम् ॥
Subject
अथोपासकाः किं कुर्वन्त्वित्याह।