Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1381

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ नो꣣ वे꣡दो꣢ अ꣣मा꣡त्य꣢म꣣ग्नी꣡ र꣢क्षतु꣣ श꣡न्त꣢मः । उ꣣ता꣢꣫स्मान्पा꣣त्व꣡ꣳह꣢सः ॥१३८१॥

सः । नः꣣ । वे꣡दः꣢꣯ । अ꣣मा꣡त्य꣢म् । अ꣣ग्निः꣢ । र꣣क्षतु । श꣡न्त꣢꣯मः । उ꣣त꣢ । अ꣣स्मा꣢न् । पा꣣तु । अ꣡ꣳह꣢꣯सः ॥१३८१॥

Mantra without Swara
स नो वेदो अमात्यमग्नी रक्षतु शन्तमः । उतास्मान्पात्वꣳहसः ॥

सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । शन्तमः । उत । अस्मान् । पातु । अꣳहसः ॥१३८१॥

Samveda - Mantra Number : 1381
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (शन्तमः) शंकरतमः (अग्निः) अग्रनायकः परमेश्वरः (नः) अस्माकम् (अमात्यम्२) सहभूतम्। [अमा इत्यव्ययं सहार्थवाचकम्, ततः ‘अव्ययात् त्यप्।’ अ० ४।२।१०४ इति त्यप् प्रत्ययः।] (वेदः) ज्ञानं दिव्यं धनं वा (रक्षतु) पालयतु। (उत) अपि च (अंहसः) पापात् (नः) अस्मान् (पातु) त्रायताम् ॥३॥३
Essence
परमात्मनि विश्वासाद् दिव्यगुणा रक्ष्यन्ते पापानि च विद्राव्यन्ते ॥३॥
Subject
अथोपासकः स्वाकाङ्क्षां प्रकटयति।