Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1380

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यः꣡ स्नीहि꣢꣯तीषु पू꣣र्व्यः꣡ सं꣢जग्मा꣣ना꣡सु꣢ कृ꣣ष्टि꣡षु꣢ । अ꣡र꣢क्षद्दा꣣शु꣢षे꣣ ग꣡य꣢म् ॥१३८०॥

यः । स्नीहितीषु । पूर्व्यः । सञ्जग्मानासु । सम् । जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम् ॥१३८०॥

Mantra without Swara
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षद्दाशुषे गयम् ॥

यः । स्नीहितीषु । पूर्व्यः । सञ्जग्मानासु । सम् । जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम् ॥१३८०॥

Samveda - Mantra Number : 1380
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पूर्व्यः) पूर्व्यैः साक्षात्कृतः। [पूर्वैः कृतमिनयौ च। अ० ४।४।१३३ इति कृतेऽर्थे यः प्रत्ययः।] (यः) योऽग्निः अग्रनायकः परमेश्वरः (स्नीहितीषु) वधकर्त्रीषु। [स्नेहयतिर्वधकर्मा निघं० २।१९।] (कृष्टिषु) शात्रवीषु प्रजासु (संजग्मानासु) संगतासु सतीषु (दाशुषे) आत्मसमर्पणकर्त्रे उपासकाय (गयम्२) गृहम् आश्रयमिति यावत्। [गयमिति गृहनाम। निघं० २।१०।] (अरक्षत्) रक्षति, तस्मै अग्नये परमेश्वराय मन्त्रं वोचेम इति पूर्वेण सम्बन्धः ॥२॥३
Essence
परमेश्वरोपासकस्य मार्गात् सर्वे विघ्ना नश्यन्ति, परमेश्वरस्तस्मै सुरक्षितं स्वाश्रयं दिव्यसम्पदश्च प्रयच्छति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।