Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 138

1875 Mantra
Devata- इन्द्रः Rishi- कुसीदी काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
दे꣣वा꣢ना꣣मि꣡दवो꣢꣯ म꣣ह꣡त्तदा वृ꣢꣯णीमहे व꣣य꣢म् । वृ꣡ष्णा꣢म꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ ॥१३८॥

दे꣣वा꣡ना꣢म् । इत् । अ꣡वः꣢꣯ । म꣣ह꣢त् । तत् । आ । वृ꣣णीमहे । वय꣢म् । वृ꣡ष्णा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ ॥१३८॥

Mantra without Swara
देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥

देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥१३८॥

Samveda - Mantra Number : 138
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। इन्द्रः परमेश्वरः, तस्य दिव्यसामर्थ्यानि देवाः उच्यन्ते। (देवानाम्) इन्द्राख्यस्य परमेश्वरस्य दिव्यसामर्थ्यानाम् (इत्) एव (अवः) संरक्षणम् (महत्) महिमोपेतम् अस्ति। (वृष्णाम्) सुखवर्षकाणां तेषां दिव्यसामर्थ्यानाम् (तत्) अवः संरक्षणम् (वयम्) उपासकाः (ऊतये) प्रगतये। अव रक्षणगत्यादिषु, क्तिनि रूपम्। (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) सम्भजामहे। वृङ् सम्भक्तौ, क्र्यादिः ॥ अथ द्वितीयः—विद्वत्परः। इन्द्रः आचार्यः, तस्य विद्वांसः शिष्याः देवाः उच्यन्ते। (देवानाम्) विदुषाम् (इत्) एव (अवः) शास्त्रज्ञानम्। अव धातोः रक्षणादिष्वर्थेषु अवगमोऽप्यर्थः पठितः। (महत्) विशालं भवति। अतः (वृष्णाम्) विद्यावर्षकाणां तेषाम् (तत्) अवः शास्त्रज्ञानम् (वयम्) अल्पश्रुताः जनाः (ऊतये) प्रगतये (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) स्वीकुर्मः ॥४॥
Essence
इन्द्रनाम्ना वेदेषु गीतकीर्तेः परमेश्वरस्य दिव्यसामर्थ्यानि बहुमूल्यानि वर्तन्ते, येषां संरक्षणं प्राप्य क्षुद्रशक्तिरपि मनुजः सर्वान् विघ्नान् संकटांश्च तीर्त्वा विविधकष्टाकुलेऽप्यस्मिन् संसारे सुरक्षितो जायते। अतः परमेश्वरस्य दिव्यसामर्थ्यानां संरक्षणं सर्वैः प्रापणीयम्। किं च विद्वांसोऽपि देवा उच्यन्ते। तेषामुपदेशश्रवणेन ज्ञानार्जनमपि कर्त्तव्यम् ॥४॥
Subject
अथ परमात्मनः प्राप्तव्यं रक्षणं, विद्वद्भ्यः प्राप्तव्यं ज्ञानं च प्रार्थ्यते।
Footnote
१. ऋ० ८।८३।१, देवता विश्वेदेवाः।