Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1379

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣पप्रय꣡न्तो꣢ अध्व꣣रं꣡ मन्त्रं꣢꣯ वोचेमा꣣ग्न꣡ये꣢ । आ꣣रे꣢ अ꣣स्मे꣡ च꣢ शृण्व꣣ते꣢ ॥१३७९॥

उ꣣पप्रय꣡न्तः꣢ । उ꣣प । प्रय꣡न्तः꣢ । अ꣣ध्वर꣢म् । म꣡न्त्र꣢꣯म् । वो꣣चेम । अग्न꣡ये꣢ । आ꣣रे꣢ । अ꣢स्मे꣡इति꣢ । च꣣ । शृण्वते꣢ ॥१३७९॥

Mantra without Swara
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥

उपप्रयन्तः । उप । प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मेइति । च । शृण्वते ॥१३७९॥

Samveda - Mantra Number : 1379
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अध्वरम्) हिंसारहितं ब्रह्मयज्ञं देवयज्ञं वा (उप प्रयन्तः) उपगच्छन्तः वयम् (आरे) दूरे। [आरे इति दूरनाम। निघं० ३।२६।] (अस्मे च) अस्माकं समीपे च, (शृण्वते) प्रार्थनावचांसि आकर्णयते (अग्नये) अग्रनायकाय जगदीश्वराय (मन्त्रम्) वेदमन्त्रम् (वोचेम२) उच्चारेयम ॥१॥३
Essence
ब्रह्मयज्ञं देवयज्ञं वा कुर्वन्तो जना मन्त्रोच्चारणपूर्वकं परमेश्वरस्य गुणकर्मस्वभावान् ध्यायेयुस्ततः शिक्षां च गृह्णीयुः ॥१॥
Subject
अथ परमेश्वरोपासनाविषयमाह।