Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1378

1875 Mantra
Devata- आत्मा सूर्यो वा Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥१३७८॥

त्रि꣣ꣳश꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥१३७८॥

Mantra without Swara
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥

त्रिꣳशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥१३७८॥

Samveda - Mantra Number : 1378
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष प्राणः (त्रिंशद् धाम) त्रिंशत् धामानि, अहोरात्रस्य त्रिंशदपि मुहूर्तानि (विराजति) शरीरे विराजमानो भवति, जाग्रदवस्थायां स्वप्नावस्थायां सुषुप्तावस्थायां चापि सक्रियस्तिष्ठति। [‘ऊर्ध्वः॑ सु॒प्तेषु॑ जागार’ अथ० ११।४।२५ इति श्रुतेः।] अस्मै (पतङ्गाय२) श्वासोच्छ्वासगत्या पक्षिवच्चेष्टते प्राणाय। [प्राणो वै पतङ्गः। कौ० ब्रा० ८।४।] (वाक्) वाणी (धीयते) निरुध्यते, प्राणायामकाले भाषणासम्भवात्। (प्रति वस्तोः) प्रत्यहम् (अह) किल (द्युभिः) दीप्तैः सूर्यकिरणैः, एष प्राणो बलवान् जायते इति वाक्यपूर्तिर्विधेया ॥३॥३
Essence
रात्रिन्दिवं शरीरं धारयन्नेष प्राणः प्राणिनां महदुपकरोति ॥३॥ अस्मिन् खण्डे परमात्मोपासनाया जीवात्मनः प्राणस्य प्रसङ्गतया विद्युतश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
तृतीया ऋक् पूर्वार्चिके ६३२ क्रमाङ्के सूर्यपरमात्मनोरेव विषये व्याख्याता। अत्र प्राणविषयो वर्ण्यते।