Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1377

1875 Mantra
Devata- आत्मा सूर्यो वा Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥१३७७

अ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥१३७७॥

Mantra without Swara
अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥१३७७

अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥१३७७॥

Samveda - Mantra Number : 1377
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) प्राणात्मनः सूर्यस्य (रोचना) दीप्तिः प्रभावशक्तिरिति यावत् (प्राणाद् अपानती) प्राणनक्रियोत्तरम् अपानक्रियां कुर्वती (अन्तः) शरीराभ्यन्तरे (चरति) विचरति। (महिषः) महान् प्राणः (दिवम्) देहस्थं मूर्धानमपि (व्यख्यत्) प्रकाशयति ॥२॥२
Essence
यथा बाह्ये सौरजगति सूर्यो ग्रहोपग्रहान् धारयति, तथैव मानवदेहे जीवात्मना सहचरितः प्राणमनोबुद्धिमस्तिष्केन्द्रियादीनि धारयति ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके ६३१ क्रमाङ्के सूर्यस्य परमात्मनश्च विषये व्याख्याता। अत्र प्राणरूपं सूर्यं वर्णयति।