Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1376

1875 Mantra
Devata- आत्मा सूर्यो वा Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥१३७६॥

आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣कमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्वऽ३रि꣡ति꣢ ॥१३७६॥

Mantra without Swara
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥

आ । अयम् । गौः । पृश्निः । अकमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्वऽ३रिति ॥१३७६॥

Samveda - Mantra Number : 1376
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 11; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एषः (पृश्निः) प्राष्टवर्णः (गौः) गतिमयः चन्द्रलोकः (आ अक्रमीत्) उदितोऽस्ति, यः (पुरः) पश्चिमतः पूर्वं प्रति (मातरम्) मातृभूतां पृथिवीम् परितः (असदत्) गच्छति। [षद्लृ विशरणगत्यवसादनेषु।] (पितरम्) पितृस्थानीयम् (स्वः च) सूर्यं च (प्रयन्) परिक्राम्यन् भवति ॥१॥२
Essence
चन्द्रो हि पृथिव्याः पृथग्भूतं पिण्डमस्तीति वैज्ञानिका मन्यन्ते। अतः पृथिवी चन्द्रस्य माता। सूर्यस्य प्रभावादेव तत् पिण्डं पृथिव्याः पृथग्भूतमिति सूर्यश्चन्द्रस्य पिता। चन्द्रः पृथिवीं परिक्राम्यन् तया सह सूर्यमपि परिक्रामतीति खगोलशास्त्रविदां निरीक्षणमस्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ६३० क्रमाङ्के सूर्य-भूलोक-परमात्म-जीवात्म-स्तोतृविषये पञ्चधा व्याख्याता। अत्र चन्द्रसूर्यसम्बन्धो वर्ण्यते।